________________
मूलं-१४
एवमन्यान्यपि पदानि, नवरं भोगा-ये तेनैव गुरुत्वेन व्यवहतास्तद्वंशजाश्च, राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तद्वंशजाच, ज्ञाता-इक्ष्वाकुवंशविशेषभूताः नागा वानागवंशप्रसूताः कोरव्वत्ति-कुरवः-कुरुवंशप्रसूताः, क्षत्रियाश्चातुर्वण्ये द्वितीयवर्णभूताः, मडत्तिचारभटाः,जोहत्ति-भटेभ्योविशिष्टतराः सहसयोधादयः, सेणावइत्ति सैन्यनायकाः,पसत्यारत्तिप्रशस्तारोधर्मशास्त्रपाठकाः,श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपट्टाङ्कितमस्तकाः, इब्मत्ति-इभ्याः हस्तिप्रमाणद्रविणराशिपतयः ‘अन्ने य बहवे एवमाइणोति एवमप्रकाराः “उत्तमजाइकुलरूवविनयविण्णाणवण्णलावण्णविक्षमपहाणसोहग्गकतिजुत्तत्ति उत्तमा ये जात्यादयः प्रधाने च ये सौभाग्यकान्ती तैर्ये युक्तास्ते तथा, तत्र जाति-मातृकः पक्षः कुलं-पैतृकः पक्षः रूपंशरीराकारः विनयविज्ञाने च प्रतीते वर्णो-गौरत्वादिका कायच्छाया लावण्यम्-आकारस्यैव स्पृहणीयता विक्रमः-पौरुषं सौभाग्यम्-आदेयता कान्तिः-दीप्तिः।
'बहुधणधण्णनिचयपरियालफिडिआ' बहवो ये धनानां-गणिमधरिमादीनां धान्यानां च-शाल्यादीनांनिचयाः-सञ्चयाः परिवारश्च-दासीदासादिपरिकरस्तैः स्फुटिता-ईशवरान्तराण्यतिक्रान्ताःअथवा तेभ्यः सर्वसङ्गत्यागेन दूरीभूता येते तथा, पाठान्तरेबहवोधनधान्यनिचयपरिवारा यस्यां स तथाभूता स्थिति गृहवासे येषां ते तथा । 'नरवइगुणाइरेआ' नरपतेः-राज्ञः सकाशाद्गुणैः-विभवसुखादिभि अतिरेकः-अतिशयोयेषां ते तथा।।
'इच्छियभोगा' ईप्सिता-वाच्छिताः भोगाः-शब्दादयो येषां ते तथा । 'सुहसंपललिया' सुखेन सम्प्रललिताःप्रक्रीडीता ये ते तथा । 'किंपागफलोवमं च ति विषवृक्षफलतुल्यं पुनः 'मुणिति ज्ञात्वा विसयसुहंति व्यक्तं, तथा 'जलबुब्बुअसमानं कुशाग्रेजलबिन्दुः कुशाग्रजलबिन्दुस्तद्वन्धञ्चलं जीवियं तिजीवितव्यंच ज्ञात्वा, तथा 'अद्धवमिणं'ति इदं विषयसौख्यधनसञ्चयादिकम् अध्रुवम्-अनित्यरूपं रज इव पटाग्रलग्नं 'संविधुणित्ता णति विधूय-झगिति विहाय, तथा चइत्त'त्तित्यक्त्वा, किंतदित्याह-हिरण्यंच रूप्यं, यावच्छब्दोपादानादिदं श्यम्चिया सुव्वण्णं चिच्चा धणं एवं धण्णं बलं वाहणं कोसं कोट्ठागारं रज्जं र8 पुरं अंतेउरं चिच्चा विपुलधनकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणमाईयंसंतसारसावतेनं विच्छडइत्ता विगोवइत्ता दानं च दाइयाणं परिभायइत्ता मुंडा भवित्ता अगाराओ अनगारिय मिति, व्यक्तं चैतत्।
नवरं सुवर्ण घटितं धनं-गवादि बलं-चतुरङ्गं वाहनं-वेगसरादिकं पुनर्धनं-गणिमादिकनकम्-अघटितसुवर्ण रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्तादयः मौक्तिकानिमुक्ताफलानि शङ्काः-प्रतीताः शिलाप्रवालानि-विद्रुमाणि रक्तरत्नानि पद्मरागा आदिशब्दाद्वस्त्रम्बलादिपरिग्रहः, एतेन किमुक्तं भवतीत्याह-'संत'त्ति विद्यमानं सारस्वापतेयं-प्रधानद्रव्यं, किमित्याह-विच्छz-विशेषेण त्यक्त्वा विच्छर्दवद्वा कृत्वा निष्क्रमणमहिमकरणतः, तथा तदेव गुसं सद्विगोप्य-प्रकाशीकृत्य दानातिशयादत एव।
'दानं च दाइयाणं'ति दानाहेभ्यः परिभाज्य-दत्वा, गोत्रिकेभ्यो वा-विभागशो दत्वा मुण्डा भूत्वा-द्रव्यतः शिरोलुञ्चनेन भावतः क्रोधाद्यपनयनेन अगाराद्-गेहात् निष्कम्येतिशेषः, अनगारितां साधुतां प्रद्रजिता गताः, विभक्तिपरिणामाद्वा अनगारितया प्रव्रजिताः- श्रम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org