SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ९६ णीभूताः, पर्यायसूत्राणि व्यक्तान्येवेति ।। मू. (१५) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगइआ आभिनिबोहियणाणी जाव केवलनाणी अप्पेगइआ मणबलिआ वयबलिआ कायबलिआ अप्पेगइआ मणेणं सावाणुग्गहसमत्था ३ अप्पेगइआ खेलोसहिपत्ता एवं जल्लोसहि० विप्पोसहि० आमोसहि० सव्वोसहि० अप्पेगइआ कोठ्ठबुद्धी । एवं बी अबुद्धी पडबुद्धी अप्पेगइआ पयाणुसारी अप्पेगइआ संभिन्नसोआ अप्पेगइआ खीरासवा अप्पेगइआ महुआसवा अप्पेगइआ सप्पिआसवा अप्पेगइआ अक्खिणमहानसिआ एवं उज्जुमतीअप्पेइआ विउलमई विउव्वणिष्डिपत्ता चारणा विज्जाहरा आगासातिवाइणो ॥ बृ. साधुवर्णकगमान्तरं व्यक्तमेव, नवरं 'मणोबलिय ' त्ति मनोबलिकाः - मानसावष्टम्भवन्तः वाग्बलिका:- प्रतिज्ञातार्थनिर्वाहकाः परपक्षक्षोभकारिवचना वा, कायबलिकाः क्षुधादिपरीषहेष्वग्लानीभवत्कायाः 'नाणबलिया' अव्यभिचारिज्ञानाः 'दंसणबलिया' परैरक्षोभ्यदर्शनाः 'चारित्तबलिया' इति व्यक्, वाचनान्तराधीतं चेदं विशेषणत्रयम् 'अप्पेगइआ मणेणं सावाणुग्गहसमत्था' मनसैव परेषां शापानुग्रही - अपकारोपकारौ कर्तु समर्था इत्यर्थ, एवं वाचा कायेन चेति । औपपातिकउपाङ्गसूत्रम्-१५ 'खेलोसहिपत्त' त्ति खेलो - निष्ठीवनं स एवौषधि सकलरोगाद्यनर्थोपशमहेतुत्वात् खेलोपधिस्तां प्राप्ता ये ते तथा, एवमन्यत्रापि, एव ओषधि इति । 'आमोसहि' त्ति आमर्षणमामर्ष - हस्तादिसंस्पर्श इति । 'सव्वोसहि' ति सर्व एव खेलजल्लविप्रुटकेशोमनखादय ओषधि सर्वोषधि, 'कोट्ठबुद्धि'त्ति कोष्ठवत् - कुशूल इव सूत्रार्थधान्यस्य यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणाद्धृद्धि - मतिर्येषां ते तथा। 'बीजबुद्धि' त्ति बीजमिव विविधार्थाधिगमरूपमहातरूजननाद्बुद्धिर्येषां ते तथा । 'पडबुद्धित्ति पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभूतसूत्रार्थपुष्पफलग्रहणसमर्थतया बुद्धिर्येषां ते तथा 'पदाणुसारि 'त्ति पदेनसूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्तिअभ्युहयन्तीत्येवंशीलाः पदानुसारिणः । 'संभिन्नसोअ ' ति सम्भिन्नान् बहुभेदभिन्नान् शब्दान् पृथक् पृथक् युगपच्छृण्वन्तीति सम्मिन्न श्रोतारः, सम्मिन्नानि वा शब्देन व्याप्तानि शब्दग्राहीणि, प्रत्येकं वा शब्दादिविषयैः श्रोतांसि सर्वेन्द्रियाणि येषां ते तथा । 'खीरासव' त्ति क्षीरवन्मधुरत्वेन श्रोतॄणां कर्णमन-सुखकरं वचनमाश्रवन्ति-क्षरन्ति ये ते क्षीराश्रवाः । ‘महुआसव’त्ति मध्वाश्रवाः प्राग्वत्, नवरं मधुवत्सर्वदषोपशमनिमित्तत्वादाल्हादकत्वाच्च तद्वचनस्य क्षीराश्रवेभ्यस्ते भेदेनोक्ताः । 'सप्पि आसव' त्ति सर्पिराश्रवास्तथैव, नवरं श्रोतॄणां स्वविषये स्नेहातिरेकसम्पादकत्वात् क्षीराश्रवमध्वाश्रवेभ्यो भेदोनोक्ताः । 'अक्खीणमहाणसीय 'त्ति महानसम्–अन्नपाकस्थानं तदाश्रितत्वाद्वाऽन्नमपि महानसमुच्यते, ततश्चाक्षीणं - पुरुष - शतसहनभ्योऽपि दयमानं स्वयमभुक्तं सत् तथाविधलब्धिविशेषादत्रुटितं तच्च तन्महानसं च-मिक्षालब्धं भोजनमक्षीणमहानसं तदस्ति येषां ते तथा । 'उज्जुमइ' त्ति ऋज्वी सामान्यतो मनोमात्रग्राहिणी मति- मनः पर्यायज्ञानं येषां ते तथा । 'विउलमइ' ति विपुला - बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy