SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ औपपातिकउपासूत्रम्-१२ तद्दास्यतीति न विरोधः । 'सक्करेइ'त्ति प्रवरवस्त्रादिभि पूजयति । 'सम्माणेइत्ति तथाविधया वचनादिप्रतिपत्या पूजयत्येवेति। एवं 'सामित्ति आणाए विनएणं वयणं पडिसुणेइत्ति वचनान्तरे वाक्यम्, एवमितियथाऽऽदेशं स्वामिन्नित्यामन्त्रणार्थ इति-उपप्रदर्शने आज्ञया-तदाज्ञां प्रमाणीकृत्येत्यर्थ विनयेन-अञ्जलिकरणादना वचनं-राजादेशं प्रतिशृणोति-अभ्युपगच्छति इति ॥ मू. (१३) तएणं समणे भगवं महावीरे कल्लं पाउप्पभायाए रयणीए फुलुप्पलकमलकोमलुम्मिलितमि आहा(अह)पंडुरे पहाए रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उट्टियम्मि सूरे सहस्सरसिमि दिनयरे। तेयसाजलंतेजेणेव चंपा नयरीजेणेवपुण्णभद्दे चेइएतेणेव उवागच्छति रत्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति॥ वृ. कलंपाउप्पभायाएरयणीए'त्तिकल्यमिति-श्वःप्रादुःप्राकाश्येततः प्रकाशप्रभातायां रजन्यां 'फुल्लुप्पलकमलकोमलुम्मियंमित्ति फुलं--विकसितं तच्च तदुत्पलंच-पध्रफुल्लोत्पलं तच कमलश्च-हरिणविशेषः तयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा।तत्र 'अहपंडुरे पभाए'त्ति अथ रजनीप्रभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उपसि ‘रतासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उठियंमि सूरे'त्ति रक्ताशोकस्यतरुविशेषस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशकुसुमं शुकमुखं च-प्रतीतं गुआ-रक्तकृष्णः फलविशेषः तदर्द्ध चेति द्वन्द्वः, एषां यो रागो-रक्तत्वं तेन सध्शः-समो यः स तथा, तथा कमलाकराः-पद्मोत्पत्तिस्थानभूता हृदादयस्तेषु यानि षण्डानि-नलिनवनानि तेषां बोधको-विकाशको यः स तथा तत्र, उस्थिते-उद्गते सूरे-रवी। किम्भूते ?- सहस्सरसिमिदिनअरे तेअसा जलंते'त्ति विशेषणत्रयं व्यक्तम् । 'संपलियंकनिसन्नेत्ति पद्मासने निषण्णः, इदं च वाचनान्तरपदम् ।। मू. (१४) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतोअपेगइया उग्गपव्वइया भोगपब्वइया राइण्ण० नाय० कोरब्ब० खत्तिअपव्वइआ भडा जोहा सेनावई पसत्थारो सेट्टी इब्मा अन्ने य बहवे एवमाइणो उत्तमजातिकुलरूवविणयविण्णाणवण्णलावण्णविक्कमपहाणसोभग्गकतिजुत्ता बहुधणधण्णनिचयपरियालफिडिआ। नरवइगुणाइरेगा इच्छिअभोगो सुहसंपललिआ किंपागफलोवमंचमुणिअविसयसोरखं जलबुब्बुअसमाणं कुसग्गजलबिंदुचंचलं जीवियं च नाऊण अद्धवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणंचइत्ता हिरण्णंजाव पव्वइआ, अप्पेगइया अद्धमासपरिआया अप्पेगइआमासपरिआया एवंदुमास तिमास जाव एक्कारस० अप्पेगइआ वासपरिआया दुवास तिवास०॥ अप्पेगइआ अनेगवासपरिआया संजमेणं तवसा अप्पाणं भावमाणा विहरति । वृ. 'अंतेवासित्ति शिष्याः। 'अप्पेगइय'त्ति अपि-समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः 'उग्गपब्वइय'त्ति उग्राआदिदेवेन ये आरक्षकत्वेन नियुक्ताः तद्वंशजाश्च अत उग्राः सन्तः प्रव्रजिता-दीक्षामाश्रिता उग्रप्रव्रजिताः। Jain Education International ational For Private & Personal Use Only www.jainelibrary.org
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy