________________
९८
औपपातिकउपाङ्गसूत्रम्-१५ 'खुड्डागसीहनिक्कलिय'ति वक्ष्यमाणमहासिंहनिक्रडितापेक्षया क्षुल्लक सिंहनिक्रडितसिंहगमनं तदिव यत्तपस्तत् सिंहनिक्रडितमित्युच्यते, तद्गमनं चातिक्रन्तदेशावलोकनतः, एवमतिक्रन्ततपःसमासेवनेनापूर्वतपसोऽनुष्ठानंयत्र तत्सिंहनिक्रडितमिति, तच्चैवम्-चतुर्थततः षष्ठचतुर्थेऽष्टमषष्ठे दशमाष्टमे द्वादशदशमे चतुर्दशद्वादशे षोडशचतुर्दशे अष्टादशषोडशे विंशतितमाष्टादशेविंशतितमंचेतिक्रमेण विधीयते, ततःषोडशाष्टादशेचतुर्दशषोडशेद्वादशचतुर्दशे दशमद्वादशेअष्टमदशमे षष्ठाष्टमे चतुर्थषष्ठे चतुर्थं चेति।
अत्र च एकस्यां परिपाटयां दिनमानम् नवकसङ्कलने द्वे ४५ । ४५ अष्टकसालना चैका ३६ सप्तकसङ्कलनाऽप्येकैव २८ पारणकदिनानि ३३ सर्वाग्रम् १८७, एवंच मासाः ६ दिनानि च७, चतसृषुपरिपाटीष्वेतदेव चतुर्गुणं स्यात, तत्र वर्षे २ दिनानि २८, तत्र प्रथमपरिपाटयां पारणकंसर्वकामगुणितं, द्वितीयस्यां निर्विकृतिक, तृतीयायामलेपकारि, चतुथ्यार्माचामाल्ममिति एवं महासिंहनिक्रडितमपि, नवरमिह स्थापना एकादयः षोडशान्ताः पुनः षोडशादय एकान्ताः स्थाप्यन्ते,तत्रद्वयादीनांषोडशान्तानमग्रेप्रत्येकमेकादयः पञ्चदशान्ताःस्थाप्यन्ते,तथायेषोडशादय एकान्ताः स्थापितास्तेषु पञ्चदशादीनां धन्तानामादौ चतुर्दशादयः स्थापनीयाः, चतुर्थादिना चाभिलापेन ते समुत्कीर्तनीयाः।।
दिनमानं चैकस्यां परिपाट्यामिदमत्र-द्वेषोडशानांसकलने १३६,१३६ एका पञ्चदशानां १२० चतुर्दशानामप्येकैव १०५ एकषष्टिश्च पारणकानीति, सर्वाग्रं च ५५८, एवं च वर्षमेकं षट्चमासाः दिनान्यष्टादशेति, परिपाटीचतुष्टये चतुर्गुणमेतदेव वर्षाणि ६मासौ २ दिनानि १२
तथा भद्रप्रतिमा यस्यांपूर्वदक्षिणापरोत्तराभिमुखःप्रत्येकं प्रहरचतुष्टयं कायोत्सर्ग करोति, एषा चाहोरात्रद्वयमानेति, महाभद्राऽपि तथैव, नवरमहोरात्रंयावदेकैकदिगभिमुखः कायोत्सर्ग करोति, अहोरात्रचतुष्टयं चास्यां मानमिति, सर्वतोभद्रा पुनर्यस्यां दशसु दिक्षु प्रत्येकमहोरात्रं कायोत्सर्ग करोति । अस्यांच दशाहोरात्राणि मानमिति ।
अथवा द्विविधा सर्वतोभद्रा-क्षुद्रा महतीच, तत्र क्षुद्रायाः स्थापनोपायगाथा चेयमत्र॥१॥ “एगाई पंचंते ठविउंमज्झंतु आइमणुपंति ।
सेसे कमेण ठविउं जाणेजा सव्वओभई॥ तपोदिनानीह पञ्चसप्तति, पारणकदिनानि तु पञ्चविंशति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम् । एवं महत्यपि, नवरमेकादयः सप्तान्तास्तस्यामुपदासा भवन्ति, स्थापनोपायगाथा त्वियम्
“एगाई सत्तंता ठविउ मज्झंतु आइमणुपंति।
सेसे कमेण ठविउंजाण महासबओभई ।।" १-२-३-४-५-६-७ इयं प्रथमा पनि ४-५-६-७-१-२-३ द्वितीया ७-१-२-३-४-५-६ तृतीया ३-४-५-६-७-१-२ चतुर्थी ६-७-१-२-३-४-५ पञ्चमी २--३-४-५-६-७-१षष्ठी ५-६-७-१-२-३-४ सप्तमी।
इह च षन्नवत्यधिकं शतं तपोदिनानां स्यादेकोनपञ्चाशच्च पारणकदिनानि, एवं चाष्टी मासाः पञ्च दिनानि, चतसृषु परिपाटीष्वेतदेव चतुर्गुणमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org