Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 27
________________ ८६ औपपातिकउपाङ्गसूत्रम्-१० सैरीभेयः वराहः-शूकरः सिंहः केसरी शार्दूलो-व्याघ्रः ऋषभो-वृषभो नागवरः-प्रधानगजः एषामिव प्रतिपूर्ण-स्वप्रमाणेनाहीनोविपुलो विस्तीर्ण स्कन्धः-अंशदेशोयस्य स तथा। 'जुगसन्निभपीणरइयपीवरपउट्ठसंठियसुसिलिठविसिट्टघणथिरसुबद्धसंधिपुरवरफलिहवट्टियभुए' युगसन्निभौ-वृत्तत्वायतत्वाभ्यां यूपतुल्यौ पीनौ-उपचित रतिदौ-पश्यतां सुखकरौ पीवरप्रकोष्ठौ अकृशकलाचिकौ संस्थितौ-विशिष्टसंस्थानौ सुश्लिष्टाः-सङ्गता विशिष्टाः-प्रधानाः घना-निविडाः स्थिराः-नातिश्लथाः सुबद्धाः-सुष्टुनद्धाः स्नायुभि सन्धयः-सन्धानानिययोस्तौ तथा, पुरवरपरिधवत्-नगरार्गलावर्तितौ च बाहू यस्य स तथा, वाचनान्तरे 'पुरवरफलिहवट्टियमुए' इत्येतावदेव भुजविशेषणं दृश्यते। 'भुयईसरविउलमोगआदाणपलिहउच्छूढदीहबाहुभुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो-देहः स तथा, स चासौ आदानार्थम्-ईप्सितार्थग्रहणाय 'पलिहोच्छूढ'त्ति पर्यवक्षिप्तश्च-प्रसारित इति समासः, पाठान्तरे 'आयाणफलिहओच्छूढ'त्तिआदीयतेअस्मादित्यादानम्-अर्गलास्थानं तस्माद् ‘उच्छूढो त्ति निष्काशितः ‘फलिहो'त्ति अर्गलादण्डः स इव ताविव वा दीर्धी बाहू यस्य स तथा, वाचनान्तरे युगसन्निभपीनरतिदपीवरप्रकोष्ठश्चासौ संस्थितोपचितघनस्थिरसुसम्बद्धसुनिगूढपर्वसन्धिश्चेति कर्मधारयपदमिति।। ___'रत्ततलोवइयमउअमंसलसुजायलक्खणपसत्थअच्छिद्दजालपाणी' रक्ततलौलोहिताधोभागौ उपचितौ-उन्नती मृदुक-कोमलौ मांसलौ--समांसौ सुजाती-सुनिष्पन्नौ प्रशस्तलक्षणी-शुभचिह्नौ अच्छिद्रजालौ-विवक्षिताङ्गुल्यन्तरालसमूहरहितौ पाणीहस्तौ यस्यस तथा। 'पीवरकोमलवरंगुली' व्यक्तं, नवरं पीवराः-महत्यः, कवचित्तु दृश्यते 'पीवरवट्टिय- सुजायकोमलवरंगुली' व्यक्तं च । 'आयंबतंवतलिणसुइरुइलनिद्धणक्खे' 'आयंबतंव'त्ति ताम्नवत् आताम्रा-ईषल्लोहिताः तलिनाः-प्रतलाः शुचयः-पवित्राः रुचिराः-दीप्ताः स्निग्धा-अरूक्षा नखा:कररुहायस्यसतथा । 'चंदपाणिलेहे चन्द्राकाराः पाणौ रेखा यस्य सतथा, एवमन्यान्यपि त्रीणि। "दिसासोत्थिअपाणिलेहे' दिक्स्वस्तिकः-दक्षिणावर्तस्वस्तिकः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह-चन्द्रसूर्यशङ्खचक्रदिकस्वस्तिकपाणिलेखः, अतएव वाचनान्तरेऽधीयते-'रविससिसंखचक्कसोस्थियविभत्तसुविरइयपाणिलेहे' व्यक्तं, नवरं विभक्ता-विभागवत्यः सुविरचिताः-सुष्टुकृताः स्वकीयकर्मणा । 'अनेगवरलक्खणुत्तिमपसत्थसइरइयपाणिलेहे' अनेकैर्वरलक्षणैरुत्तमाःप्रशस्ताः शुचयोरतिदाश्चरम्याः पाणिलेखा यस्य स तथा। अथप्रकृतवाचनाऽनुश्रीयते-'कणगसिलायलुजलपसत्थसमतलउवचियविच्छिन्नपिहुलवच्छे' कनकशिलातलवदुज्वलं प्रशस्तंच-शुभं समतलञ्च-अविषमरूपम् उपचितञ्च-मांसलं विस्तीर्णपृथुलं च-अतिविशालं च वक्षः-उरो यस्य स तथा । 'सिरिवच्छंकियवच्छे' व्यक्तं, वाचनान्तरे तु वक्षोविशेषणान्येवं दृश्यन्ते-'उवचियुरवरकाडविच्छिण्णपिहुलवच्छे' उपचितं पुरवरकपाटवद्विस्तीर्णं पृथुलं च-अतिपृथु वक्षो यस्य स तथा, 'कणयसिलायलुजलपसत्थसमतलसिरिवच्छरइयवच्छे' पूर्ववन्नवरं श्रीवत्सेन रतिदं-रम्यमिति विशेषः। 'अकरंडुअकणगरुययनिम्मलसुजायनिरुवहयदेहधारी' अकरण्डुकञ्च-मांसलतयाऽनुप Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150