Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 29
________________ Ce औपपातिकउपाङ्गसूत्रम्-१० दतिरेकेण-अतिशयेन वर्तिता-वृत्ता कटीयस्यसतथा। 'वरतुरगसुजायगुज्झदेसे' वरतुरगस्येव सुजातः-सङ्गुप्तत्वेन सुनिष्पन्नो गुह्यदेशो यस्यस तथा, वाचनान्तरे तु 'पसत्यवरतुरगगुज्झदेसे' व्यक्तंच । 'आइन्नहउव्व निरुवल्लेवे' जात्यश्व इव निरुपलेपो-लेपरहितशरीरः, जात्यश्वो हि मूत्रपुरीषाधनुपलिप्तगात्रो भवति। _ 'वरवारणतुलविक्कमविलसियगई वरारणस्य-गजेन्द्रस्य तुल्यः-सशोविक्रमः-पराक्रमः विलसिताच-विलासवती गति-गमनंयस्य स तथा। गयससणसुजायसत्रिभोरु गजश्वसनस्यहस्तिनासिकायाः सुजातस्य सुनिष्पन्नस्य सत्रिभ-सश्यौऊरू-जोयस्यसतथा । समुग्गणिमग्गगूढजाणू' समुद्गः-समुद्गकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निमग्नगूढे अत्यन्तनिगूढे मांसलत्वादनुन्नतेजानुनी-अष्ठीवतीयस्यसतथा। “एणीकुरुविंदावत्तवट्टाणुपुब्बजंघे' एणी-हरिणी तस्या इव कुरुविन्दः-तृणविशेषः वत्रंच-सूत्रवलनकं ते इव च वृत्ते-वर्तुले आनुपूव्येणतनुकेचेतिगम्यं, जड़े-प्रसृतेयस्यस तथा, अन्ये त्वाहुः-एण्यः-स्नायवः कुरुविन्दा-कुटिलकाभिधानोरोगविशेषः ताभिस्त्यक्ते, शेषं तथैव । संठियसुसिलिट्ठगूढगुप्फे' संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-सुघटनौ गूढौ-मांसलत्वाद- नुपलक्ष्यौ गुल्फौपादमणिबन्धौ यस्य स तथा। ____'सुपइट्टियकुम्मचारुचलणे' सुप्रतिष्ठिती-शुभप्रतिष्ठौ कूर्मवत्-कच्छपवच्चारू-उन्नतत्वेन शोभनौ चलनी-पादौ यस्य स तथा । 'अनुपुव्वसुसंहयंगुलीए' आनुपूव्येण-क्रमेण वर्द्धमाना हीयमाना वा इतिगम्यं, सुसंहता-सुष्टुअविरला अडल्यः-पादानावयवायस्यसतथा, 'अनुपुव्वसुसाहयपीवरंगुलीएत्ति कवचिद् दृश्यते । 'उन्नयतणुतंबणिद्धणहे' उन्नता-अनिम्नाः तनवःप्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखाः-पादाङ्गुल्यवयवा यस्य स तथा } 'रत्तुप्पलपत्तमउयसुकुमालकोमलतले' रक्तं-लोहितमुत्पलपत्रवत्-कमलदलवन्मृदुकम्-अस्तब्धं सुकुमाराणां मध्ये कोमलं पादतलं यस्य स तथा। 'अट्ठसहस्सवरपुरिसलक्खणधरे'त्ति व्याख्यातमेव । वाचनान्तरेऽधीयते--'नगनगरमगरसागरचक्ककवरंकमंगलंकियचलणे' नगः-पर्वतो नगरं-पत्तनं मकरो-जलचरविशेषः सागरः-समुद्रः चक्र-रथाङ्गएतान्येवाङ्का-लक्षणानि वराताश्च-नगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलादीनि च-स्वस्तिकादीनीति द्वन्द्वः, तैरङ्कितौ चलनी यस्य स तथा। 'विसिट्ठरूवे'त्ति व्यक्तं 'हुयवहनिभूमजलियतडितडियतरुणरविकिरणसरिसतेए' हुतवहस्य निधूमं यद् ज्वलितं तस्य तटितडितश्च-विस्तारितविद्युतः तरुणरविकिरणानां च-अभिनवादित्यकराणां सदृशंसमं तेजः-प्रभा यस्य स तथा। _ 'अणासवे' प्राणातिपातादिरहितः। अममे ममेतिशब्दरहितो, निर्लोभत्वात्। 'अकिंचणे निद्रव्यः, परिग्रहसंज्ञारहित्वात् । 'छिन्नसोए' छिन्नश्रोताः त्रुटितभवर्रवाहः, छिन्नशोको वा । 'निरुवलेवे द्रव्यतो निर्मलदेहो, भावतस्तु कर्मबन्धहेतुलक्षणोपलेपरहितः ।पूर्वोक्तमेव विशेषेणाह-'ववगयपेमरागदोसमोहे' व्यपगतं-नष्टंप्रेमच-अभिष्वङ्गलक्षणंरागश्च विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वा यस्य स तथा । 'निग्गंथस्स पवयणस्स देसए' निर्ग्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य देशकः । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150