Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं- १०
लक्ष्यमाणपृष्ठवंशास्थिकं, कनकस्येव रुचको - रुचिर्यस्य स तथा, तं च निर्मलं च सुजातं च निरुपहतं च-रोगोपहतिवर्जितं देहं धारयतीत्येवंशीलो यः स तथा । अट्ठसह- स्सपाडिपुन्नवर - पुरिसलक्खण धरेत्ति क्वचिदश्यते अष्टसहस्रम - अष्टोत्तर सहं प्रतिपूर्णम् - अन्यूनं वरपुरुष लक्षणानां स्वस्तिकादीनां धारयति यः स तथा 'सण्णय पासे' अधोऽधः पार्श्वयोरवनत्वात् 'संगयपासे' देहप्रमाणो चित्तपार्श्वः, अतएव 'सुंदर पास' त्ति व्यक्तं, 'सुजायपासे' सुनिष्पन्नपाव, मियमाइ अपीणरइयपासे मित्तमात्रिकौ - अत्यर्थं परिमाणवन्तौ पीनौ - उपचितौ रतिदौ- रम्यौ पावकक्षाधोदेशौ यस्य स तथा ।
-
८७
'उज्जयसमसंहियजच्चतणुकसिणनिध्धआइज्जलऽ हरमणिज्जरोमराई 'ऋजुकानाम् अवक्रणां समानाम् अविषमाणां संहितानां संहतानां जात्यानांप्रधानानां तनूनां सूक्ष्माणां कृष्णानां कालानां स्निग्धानाम् अरुक्षाणाम् आदेयानाम् उपादेयानां लडहानां- सलावण्यानाम् अतएव रमणीयानां च - रम्याणां रोम्यां - तनूरुहाणां राजिः पङ्क्तिर्यस्य स तथा । 'झसविहगसुजायपीणकुच्छी' मत्स्यपक्षिणोरिव सुजातौसुनिष्पन्नौ पीनौ - उपचितौ कुक्षी-उदरदेशविशेषौ यस्य स तथा ।
यू. (१० - वतर्ते) झसोदरे सुइकरणे पउमविअडणाभे गंगावत्तकपयाहिणावत्ततरंगभंगुररविकिरण- तरुणबोहियअकोसायंतपुमगंभीरवियडनाभे साहयसोणंदमुसलदप्पणनिकरिथवरकणगच्छरुसरिसवरवइरवलिअमज्झे पमुइयवरतुरगसीहवरवट्टियकडी वरतुरगसुजायसुगुज्झदेसे आइण्णहउव्व निरुवलेवे वरवारणतुल्लविक्कमविलसियगई गयससणसुजायसन्नि भोरु समुग्गणिमग्गगूढजान् ।
- एणीकुरुविंदावत्तवट्टाणुपुव्वजंघे संठियसुसिलिङगूढगुप्फे सुप्पइडियकुम्मचारुचलणे अनुपुब्वसुसंहयंगुलीए उन्नयतणुतंबणिद्धणक्खे रत्तुप्पलपत्तम असुकुमालकोभलतले अठ्ठसहस्सवरपुरिसलक्खणधरे नगनगरमगरसागरचक्ककवरंकमंगलंकियचलणे विसिहरूवे हुयवहनिद्धूमजलियतडितडियतरुणरविकिरणसरिसतेए अणनसवे अममे अकिंचने छिन्नसोए निरुवलेवे ववगपेमरागदोसमोहे निग्गंथस्स पवयणस्स देसए।
वृ. 'झसोदरे 'ति व्यक्तं । 'सुइकरणे' शुचीन्द्रियः । 'झषोदरपद्मविकटनाभि' इति पाठान्तरं । 'गङ्गाक्त्तकपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियअकोसायंतपउभगंभीरवियडणाहे' गङ्गावर्तक इव प्रदक्षिणावर्ततरङ्गैरिव - वीचिभिरिव भङ्गुरा च - भग्ना रविकिरणतरुणत्ति-तरुणरविकिरणैर्बोधितं स्पृष्टं अकोसायंतत्ति विकाशीभवद् यत्पद्मं तद्वद्गम्भीरा च विकटा च नाभिर्यस्य स तथा ।
'साहयसोणंदमुसलदप्पणणिकरियवरकणगच्छरुसरिसवरवइरवलियमज्झे' साहयत्तिसंहतं संक्षिप्तमध्यं यत्सोणंद-त्रिकाष्ठिका मुशलंच-प्रतीतं दर्पणकश्च - आदर्शकदण्डो निगरियत्तिसारीकृतं यद्वरकनकं तस्य यः त्सरु - खङ्गमुष्टि स चेति द्वन्द्वः, तैः सदृशो वरवज्र इव चलितः - क्षामो मध्यो- मध्यभागो यस्य स तथा ।
'पमुइयवरतुरयसीहवरवट्टियकडी' प्रमुदितस्य - रोगशोकाद्यनुपहतस्य वरतुरगस्येव सिंहवरस्येव च प्रतीतस्य वर्तिता - वृत्ता कटीनितम्बदेशो यस्य स तथा, पाठान्तरे तु 'पमुइयवरतुरगसीह अइरेगवट्टियकडी' त्ति ६श्यते, तत्र प्रमुदितयोर्वरयोस्तुरगसिंहयोः कटयाः सकाशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150