Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
९०
औपपातिकउपाङ्गसूत्रम्-१०
१६ अन्योऽन्यप्रगृहीतत्वं-परस्परेण पदानां वाक्यानां वा सापेक्षता १७ अभिजातत्वं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १८।
अतिस्निग्धमधुरत्वं-घृतगुडादिवत्सुखकारित्वं १९ अपरमर्मवेधित्वं-परमर्मानुद्घाटनस्वरूपत्वम् २० अर्थधर्माभ्यासानपेतत्वं-घृतगुडादिवत् सुखकारित्वं १९ अपरमर्मवेधित्वंपरमर्मानुद्घाटनस्वरूपत्वम् २० अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धत्वं २१ उदारत्वम्अभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा २२ परनिन्दात्मोकर्षविप्रयुक्तत्वमिति प्रतीतमेव २३ उपगतश्लाध्यत्वम्-उक्तगुणयोगात् प्राप्तश्लाध्यता २४ अनपनीतत्वम्- कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता २५ उत्पादिताच्छिन्नकौतूहलत्वं-स्वविषये श्रोतृणां जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भास्तत्वम् २६ अद्भुतत्वम् अनतिविलम्बित्वं च प्रतीतं २७-२८ विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्व-विभ्रमो-वक्तृमनसो भ्रान्तता विक्षेपःतस्यैवाभिधेयार्थप्रत्यनासक्तता किलिकिञ्चितं-रोषभयाभिलाषादिभावानांयुगपदसकृत्करणम्, आदिशब्दान्मनोदोषन्तरपरिग्रहः, तैर्वियुक्तं यत्तथा तद्भावस्तत्वं २९ अनेकजातिसंश्रयाद्विचित्रत्वम्, इहजातयो वर्णनीयवस्तुस्वरूपवर्णनानि३० आहितविशे-षत्वं-वचनान्तरापेक्षया ढौकितविशेषता ३१ साकारत्वं-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं ३२ सत्वपरिगृहीतत्वंसाहसोपेतता ३३अपरिखेदितत्वम्-अनायाससम्भवः३४ अव्युच्छेदित्वं-विवक्षितार्थसम्यकसिद्धिं यावद् अवयवच्छिन्नवचनप्रमेयतेति ३५।
__अथप्रकृतवाचना-'आगासगएणं'तिआकाशवर्तिना 'चक्रण' धर्मचक्रण आगासगएणं छत्तेणं तिछत्रत्रयेण 'आगासियाहिं ति आकाशम्-अम्बरमिताभ्यां प्राप्ताभ्यां आकर्षिताभ्यां वा-आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'चामराहिं'ति चामराभ्यांप्रकीर्णकाभ्यां, प्राकृतत्वाच लिङ्गव्यत्ययः, लक्षित इति सर्वत्र गम्यम् । 'आगासफलियामएणं ति आकाशतुल्यं स्वच्छतया यत् स्फटिकंतन्मयेन, सपादपीठेन सिंहासनेनेति व्यक्त।
___ 'धम्मज्झएणं तिधर्मचक्रवर्तित्वसंसूचकेन केतुना-महेन्द्रध्वजेनेत्यर्थ, 'पुरओ'त्तिअग्रतः 'पकढिजमाणेणं'ति देवैः प्रकृष्यमाणेनेति, ‘सद्धिं' सह संपरिबुडे'त्ति सम्यक् परिकरितःसमन्ताद्वेष्टित इत्यर्थः। 'पुब्बाणुपुब्बिति पूर्वानुपूर्व्यानपश्चानुपूर्व्या नानानुपूर्व्यावेत्यर्थ, क्रमेणेति हृदयं, चरन् सञ्चरन्, एतदेवाह-'गामाणुग्गामं दूइजमाणे'त्तिग्रामश्च प्रतीतोऽनुग्रामश्च-विवक्षितग्रामानन्तरोग्रामोग्रामानुग्रामंतद्'द्रवन् गच्छन्, एकस्माद्यामादनन्तरंग्रामम-नुल्लङघयनित्यर्थ, अनेनाप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमिति।
____ 'सुहंसुहेणं विहरमाणे'त्ति अत एव सुखंसुखेन-शरीरखेदाभावेन संयमबाधाभावेन च 'विहरन्’ स्थानात स्थानान्तरंगच्छन् ग्रामादिषुवा तिष्ठन् ‘बहिय'त्ति बहिस्तात् ‘उवनगरग्गामति नगरस्य समीपमुपनगरं तत्र ग्राम उपनगरग्रामस्तमुपागतः ।
मू(११)तएणं से पवित्तिवाउए इमीसेकहाए लद्धडे समाणे हडतुडचित्तमा दिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियएण्हाएकयबलिकम्मे कयकोउ-अमंगलपायच्छिते सुद्धप्पवेसाई मंगलाइं वत्थाई पवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे सआओ गिहाओ पडिनिक्खमइ, सआओगिहाओ पडिनिक्खमित्ताचंपाएनयरीए मज्झंमज्झेणंजेणेव कोणियस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150