________________
Ce
औपपातिकउपाङ्गसूत्रम्-१० दतिरेकेण-अतिशयेन वर्तिता-वृत्ता कटीयस्यसतथा। 'वरतुरगसुजायगुज्झदेसे' वरतुरगस्येव सुजातः-सङ्गुप्तत्वेन सुनिष्पन्नो गुह्यदेशो यस्यस तथा, वाचनान्तरे तु 'पसत्यवरतुरगगुज्झदेसे' व्यक्तंच । 'आइन्नहउव्व निरुवल्लेवे' जात्यश्व इव निरुपलेपो-लेपरहितशरीरः, जात्यश्वो हि मूत्रपुरीषाधनुपलिप्तगात्रो भवति।
_ 'वरवारणतुलविक्कमविलसियगई वरारणस्य-गजेन्द्रस्य तुल्यः-सशोविक्रमः-पराक्रमः विलसिताच-विलासवती गति-गमनंयस्य स तथा। गयससणसुजायसत्रिभोरु गजश्वसनस्यहस्तिनासिकायाः सुजातस्य सुनिष्पन्नस्य सत्रिभ-सश्यौऊरू-जोयस्यसतथा । समुग्गणिमग्गगूढजाणू' समुद्गः-समुद्गकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निमग्नगूढे अत्यन्तनिगूढे मांसलत्वादनुन्नतेजानुनी-अष्ठीवतीयस्यसतथा। “एणीकुरुविंदावत्तवट्टाणुपुब्बजंघे' एणी-हरिणी तस्या इव कुरुविन्दः-तृणविशेषः वत्रंच-सूत्रवलनकं ते इव च वृत्ते-वर्तुले आनुपूव्येणतनुकेचेतिगम्यं, जड़े-प्रसृतेयस्यस तथा, अन्ये त्वाहुः-एण्यः-स्नायवः कुरुविन्दा-कुटिलकाभिधानोरोगविशेषः ताभिस्त्यक्ते, शेषं तथैव । संठियसुसिलिट्ठगूढगुप्फे' संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-सुघटनौ गूढौ-मांसलत्वाद- नुपलक्ष्यौ गुल्फौपादमणिबन्धौ यस्य स तथा। ____'सुपइट्टियकुम्मचारुचलणे' सुप्रतिष्ठिती-शुभप्रतिष्ठौ कूर्मवत्-कच्छपवच्चारू-उन्नतत्वेन शोभनौ चलनी-पादौ यस्य स तथा । 'अनुपुव्वसुसंहयंगुलीए' आनुपूव्येण-क्रमेण वर्द्धमाना हीयमाना वा इतिगम्यं, सुसंहता-सुष्टुअविरला अडल्यः-पादानावयवायस्यसतथा, 'अनुपुव्वसुसाहयपीवरंगुलीएत्ति कवचिद् दृश्यते । 'उन्नयतणुतंबणिद्धणहे' उन्नता-अनिम्नाः तनवःप्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखाः-पादाङ्गुल्यवयवा यस्य स तथा } 'रत्तुप्पलपत्तमउयसुकुमालकोमलतले' रक्तं-लोहितमुत्पलपत्रवत्-कमलदलवन्मृदुकम्-अस्तब्धं सुकुमाराणां मध्ये कोमलं पादतलं यस्य स तथा।
'अट्ठसहस्सवरपुरिसलक्खणधरे'त्ति व्याख्यातमेव । वाचनान्तरेऽधीयते--'नगनगरमगरसागरचक्ककवरंकमंगलंकियचलणे' नगः-पर्वतो नगरं-पत्तनं मकरो-जलचरविशेषः सागरः-समुद्रः चक्र-रथाङ्गएतान्येवाङ्का-लक्षणानि वराताश्च-नगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलादीनि च-स्वस्तिकादीनीति द्वन्द्वः, तैरङ्कितौ चलनी यस्य स तथा। 'विसिट्ठरूवे'त्ति व्यक्तं 'हुयवहनिभूमजलियतडितडियतरुणरविकिरणसरिसतेए' हुतवहस्य निधूमं यद् ज्वलितं तस्य तटितडितश्च-विस्तारितविद्युतः तरुणरविकिरणानां च-अभिनवादित्यकराणां सदृशंसमं तेजः-प्रभा यस्य स तथा। _ 'अणासवे' प्राणातिपातादिरहितः। अममे ममेतिशब्दरहितो, निर्लोभत्वात्। 'अकिंचणे निद्रव्यः, परिग्रहसंज्ञारहित्वात् । 'छिन्नसोए' छिन्नश्रोताः त्रुटितभवर्रवाहः, छिन्नशोको वा । 'निरुवलेवे द्रव्यतो निर्मलदेहो, भावतस्तु कर्मबन्धहेतुलक्षणोपलेपरहितः ।पूर्वोक्तमेव विशेषेणाह-'ववगयपेमरागदोसमोहे' व्यपगतं-नष्टंप्रेमच-अभिष्वङ्गलक्षणंरागश्च विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वा यस्य स तथा । 'निग्गंथस्स पवयणस्स देसए' निर्ग्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य देशकः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org