Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 23
________________ औपपातिकउपाङ्गसूत्रम्-१० ८२ त्वर्थं करोतीति दर्शयन्नाह चक्षुरिव चक्षुः - श्रुतज्ञानं तद्दयते यः स चक्षुर्दयः, यथा हि लोके चक्षुर्दत्वा वाञ्छितस्थानमार्ग दर्शयन्महोपकारी भवति इत्येवमिहापीति दर्शयन्नाहमार्ग- सम्यग्दर्शनादिकं मोक्षपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तधनान्निरुपद्रवं स्थानं प्रापयन् परमोपकारी भवतीत्येवमिहापीति दर्शयन्नाह - ' शरणदयो' निरुपद्रवस्थानदायको, निर्वाणहेतुरित्यर्थ । यथा हि लोके चक्षुर्मार्गशरणदानाद्दुस्थानां जीवनं ददात्येवमिहापीति दशर्यत्राह - जीवनं जीवो - भावप्राणधारणम्, अमरणधर्मत्वमित्यर्थ, तं दयत इति जीवदयो, जीवेषु वा दया यस्य स जीवदयः, तथा दीप इव समस्तवस्तुप्रकाशकत्वात् द्वीपो वा संसारसागरान्तर्गताङ्गिवर्गस्य नानाविधदुःखकल्लोलाभिघातदुः स्थितस्याश्वासहेतुत्वात्, तथा त्राणम् अनर्थप्रतिहननं तद्धेतुत्वात्राणं, तथा शरणम्-अर्थसम्पादनं तद्धेतुत्वाच्छरणं, तथा 'गइ' त्ति गम्यतेऽभिगम्यते दुःस्थितैः सुस्थतार्थश्रीयते इति गति, 'पइट्ठ' त्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा - आधारः संसारगर्ते प्रपततः प्राणिवर्गस्येति । तथा त्रयस्समुद्राश्चतुर्थो हिमवानेते चत्वारः पृथिव्या अन्ताः - पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः, स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती, वरश्चासौ चातुरन्तचक्रवर्ती च वरचातुरन्त - चक्रवर्ती - सर्वराजातिशायी, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, सकल- धर्मप्रणेतृणां मध्ये सातिशयत्वादिति, तथा अप्रतिहते - कटादिभिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने - केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधरः, कथमस्यैते इत्यत आह-यतो 'व्यावृत्तच्छद्मा' निवृत्तज्ञानावरणो निर्मायो वा, एतच रागादिजयात्तस्येत्याह- 'जिनो' रागादिजेता, रागादिजयश्च रागादिस्वरूपादिज्ञाना दित्यत आह 'जाणए 'त्ति ज्ञायको - ज्ञाता रागादिभावसम्बन्धिनां स्वरूपकारणफलानामिति, अत एव 'तिण्णो' त्ति तीर्ण इवतीर्ण, संसारसागरमिति गम्यते, अत एव 'तारकः' संसारसागरादुपदेशवर्तिनां भगवानिति, तथा 'मुक्तो' बाह्याभ्यन्तरग्रन्थात् कर्मबन्धनाद्वा, अत एव 'मोचकः' अन्येषामुपदेशवर्तिनां तथा 'बुद्धे' त्ति बुद्धवान् बोद्धव्यम्, अत एव 'बोधकः' अन्येषामिति, एतावन्ति विशेषणानि भवावस्थामाश्रित्योक्तानि, अथ सिद्धावस्थामाश्रित्योच्यते- 'सव्वन्नू सव्वदरिसी त्ति, इह ज्ञानं - विशेषावबोधः, दर्शनं च-सामान्यावबोधः । सिद्धावस्थायां पुरुषस्य कैश्चित् ज्ञान् नाभ्युपगम्यते प्रकृतिविकारस्य बुद्धेरभावादित्येतन्मतव्यपोहार्थमिदं तथा 'शिवं' सर्वोपद्रवरहितत्वाद् 'अचलं' स्वाभाविकप्रायोगिकचलनरहितत्वत् 'अरुजं' रोगाभावात् 'अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात्, 'अक्षयम्' अनाशं, साद्यपर्यवसितत्वात्, अक्षयं वा परिपूर्णत्वात, 'अव्याबाधम्' अपीडाकारित्वात्, 'अपुनरावर्तकं' पुनर्भवाभावात्, सिद्धिगतिरिति नामधेयं-प्रशस्तं नाम यस्य तत्सिद्धिगतिनामधेयं, तिष्ठन्त्यस्मिन्निति स्थानं - क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150