Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 22
________________ मूलं - ९ मू. (९) तेणं कालेणं तेणं समएणं कोणिए राया भंभसारपुत्ते बाहिरियाए उवडाणसालाए अणेगगणनायगदंडनायगराईसरतलवरमाडंबि अकोडंबिअमंतिमहामंतिगणगदोवारिअअमाचेडपीढमद्दनगरनिगमसेट्ठिसेणावइसत्थवाहदूतसंधिवाल सद्धिं संपरिवुडे विहरइ ।। ८१ वृ. 'भंभसारपुत्ते ' त्ति श्रेणिकराजसूनुः । 'अनेगगणे' त्यादि, अनेके ये गणनायकाःप्रकृतिमहत्तराः, दण्डनायकाः - तन्त्रपालाः राजानो - मण्डलिका ईश्वरा - युवराजाः, मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः, तलवराः - परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः राजस्थानीयाः, 'माsबिया' छिन्नमडम्बाधिपाः, 'कोडंबिया' कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः प्रतीताः महामन्त्रिणो - मन्त्रिमण्डलप्रधानाः ष हस्तिसाधनोपरिका इति वृद्धाः, गणका - ज्योतिषिकाः, भाण्डागारिका इति वृद्धाः, दौवारिकाः -- प्रतीहाराः राजदौवारिका वा, - - अमात्या-राज्याधिष्ठायकाः, चेटा:- पादमूलिकाः, पीठमर्दा - आस्थाने आसनासन्नसेवकाः, वयस्या इत्यर्थः, नगरं - नगरवासिप्रकृतयः, निगमाः- कारणिकाः वणिजो वा, श्रेष्ठिनःश्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो - नृपतिनिरूपित - चतुरङ्गसैन्यनायकाः, सार्थवाहा: सार्थवाहकाः, दूता - अन्येषां राजादेशनिवेदकाः सन्धिपालाः- राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः इह तृतीयाबहुवचनलोपो द्रष्टव्यः, 'सद्धिं ति सार्द्धं सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समित - समन्तात्परिवृतः परिकरित इति ।। " " मू. (१०) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्दे पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अभयदए चक्खुदए मग्गदए सरणदए जीवदए दीवो ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदंसणधरे विअट्टच्छउमे । जिणे जाणए तिण्णे तारए मुत्ते मोयए बुद्धे बोहए सव्वन्नू सव्वदरिसी सिवमयलमरुअमनंतमक्खयमव्वाबाहमपुणरावत्तिअं सिद्धिगइनामधेयं ठाणं संपाविउकामे अरहा जिने केवली सत्तहत्थूस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे अनुलोमवाउवेगे कंकग्गहणी कवयपरिणामे सउणिपोसपिट्टंतरोरुपरिणए । वृ. महावीरवर्णके लिख्यते- 'श्रमणो' महातपस्वी नामान्तरं वा इदमन्तिमजिनस्य 'भगवान्' समग्रैश्वर्यादियुक्तः 'महावीरे' देवादिकृतोपसर्गादिष्वचलितसत्वतया देवप्रतिष्ठितनामा, ' आदिकरः' आदी प्रथमतया श्रुतधर्मस्य करणशीलत्वात्, 'तीर्थङ्करः' सङ्घकरणशीलत्वात् 'सहसम्बुद्धः' स्वयमेव सम्यग्बोद्धव्यस्य बोधात्, - कुत एतदित्याहयतः 'पुरुषोत्तमः ' तथाविधातिशयसम्बन्धेन पुरुषप्रधानः, उत्तमत्वमेवोपमात्रयेणाह - 'पुरुषसिंहः' शौर्यातिशयात्, 'पुरुषवरपुण्डरीकः' पुरुष एव वरपुण्डरीकम्धवलपद्मं पुरुषवरपुण्डरीकं, धवलता चास्य सर्वाशुभमलीमसरहितत्वात्, एवं 'पुरुषवरगंधहस्ती' गन्धहस्तिता चास्य सामान्यगजकल्पपरचक्रदुर्भिक्षजनमरकादिदुरितविनाशनात्, तथा न भयं दयते - ददाति प्राणापहारकरणरसिकोपसर्गकारिण्यपि प्राणिनीत्यभयदयः, अभया वासर्वप्राणिभयपरिहारवती दया - घृणा यस्य सोऽभयदयः, न केवलमयमनर्थं न करोति अपि 86 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150