________________
मूलं - ९
मू. (९) तेणं कालेणं तेणं समएणं कोणिए राया भंभसारपुत्ते बाहिरियाए उवडाणसालाए अणेगगणनायगदंडनायगराईसरतलवरमाडंबि अकोडंबिअमंतिमहामंतिगणगदोवारिअअमाचेडपीढमद्दनगरनिगमसेट्ठिसेणावइसत्थवाहदूतसंधिवाल सद्धिं संपरिवुडे विहरइ ।।
८१
वृ. 'भंभसारपुत्ते ' त्ति श्रेणिकराजसूनुः । 'अनेगगणे' त्यादि, अनेके ये गणनायकाःप्रकृतिमहत्तराः, दण्डनायकाः - तन्त्रपालाः राजानो - मण्डलिका ईश्वरा - युवराजाः, मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः, तलवराः - परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः राजस्थानीयाः, 'माsबिया' छिन्नमडम्बाधिपाः, 'कोडंबिया' कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः प्रतीताः महामन्त्रिणो - मन्त्रिमण्डलप्रधानाः ष हस्तिसाधनोपरिका इति वृद्धाः, गणका - ज्योतिषिकाः, भाण्डागारिका इति वृद्धाः, दौवारिकाः -- प्रतीहाराः राजदौवारिका वा, -
- अमात्या-राज्याधिष्ठायकाः, चेटा:- पादमूलिकाः, पीठमर्दा - आस्थाने आसनासन्नसेवकाः, वयस्या इत्यर्थः, नगरं - नगरवासिप्रकृतयः, निगमाः- कारणिकाः वणिजो वा, श्रेष्ठिनःश्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो - नृपतिनिरूपित - चतुरङ्गसैन्यनायकाः, सार्थवाहा: सार्थवाहकाः, दूता - अन्येषां राजादेशनिवेदकाः सन्धिपालाः- राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः इह तृतीयाबहुवचनलोपो द्रष्टव्यः, 'सद्धिं ति सार्द्धं सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समित - समन्तात्परिवृतः परिकरित इति ।।
"
"
मू. (१०) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्दे पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अभयदए चक्खुदए मग्गदए सरणदए जीवदए दीवो ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदंसणधरे विअट्टच्छउमे ।
जिणे जाणए तिण्णे तारए मुत्ते मोयए बुद्धे बोहए सव्वन्नू सव्वदरिसी सिवमयलमरुअमनंतमक्खयमव्वाबाहमपुणरावत्तिअं सिद्धिगइनामधेयं ठाणं संपाविउकामे अरहा जिने केवली सत्तहत्थूस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे अनुलोमवाउवेगे कंकग्गहणी कवयपरिणामे सउणिपोसपिट्टंतरोरुपरिणए ।
वृ. महावीरवर्णके लिख्यते- 'श्रमणो' महातपस्वी नामान्तरं वा इदमन्तिमजिनस्य 'भगवान्' समग्रैश्वर्यादियुक्तः 'महावीरे' देवादिकृतोपसर्गादिष्वचलितसत्वतया देवप्रतिष्ठितनामा, ' आदिकरः' आदी प्रथमतया श्रुतधर्मस्य करणशीलत्वात्, 'तीर्थङ्करः' सङ्घकरणशीलत्वात् 'सहसम्बुद्धः' स्वयमेव सम्यग्बोद्धव्यस्य बोधात्, -
कुत एतदित्याहयतः 'पुरुषोत्तमः ' तथाविधातिशयसम्बन्धेन पुरुषप्रधानः, उत्तमत्वमेवोपमात्रयेणाह - 'पुरुषसिंहः' शौर्यातिशयात्, 'पुरुषवरपुण्डरीकः' पुरुष एव वरपुण्डरीकम्धवलपद्मं पुरुषवरपुण्डरीकं, धवलता चास्य सर्वाशुभमलीमसरहितत्वात्, एवं 'पुरुषवरगंधहस्ती' गन्धहस्तिता चास्य सामान्यगजकल्पपरचक्रदुर्भिक्षजनमरकादिदुरितविनाशनात्, तथा न भयं दयते - ददाति प्राणापहारकरणरसिकोपसर्गकारिण्यपि प्राणिनीत्यभयदयः, अभया वासर्वप्राणिभयपरिहारवती दया - घृणा यस्य सोऽभयदयः, न केवलमयमनर्थं न करोति अपि
86
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org