________________
औपपातिकउपाङ्गसूत्रम्-७
प्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि - सुनिष्पन्नानि सर्वाण्यङ्गानि - शिरः प्रभृतीनि यत्र तत्तथाविधं सुन्दरम - शरीरं यस्याः सा तथा । 'ससीसोमाकारकंतपीयदंसणा' शशिवत्सौम्याकारं - कान्तं च-- कमनीयमत एव च प्रियं-वल्लभं ष्टृणां दर्शनं रूपं यस्याः सा तथा ।
अत एव 'सुरूव'त्ति शोभनरूपा । 'करयलपरिमिअपसत्यतिवलियवलियमज्झा' करतलपरिमितो - मुष्टिग्राह्यः प्रशस्तः- शुभस्त्रिवलिको वलित्रययुक्तो वलितः - सञ्जातवलिर्मध्यो- मध्यभागो यस्याः सा तथा । 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता गण्डलेखाः- कपोलपत्रवल्यो यस्याः सा तथा, 'कुण्डलोल्लिखितपीनगण्डलेखे 'ति पाठान्तरं, व्यक्तं च । 'कोमुइर-यणियरविमलपडिपुन्नसोमवयणा' कौमुदीचन्द्रिका कार्तिकी वा तत्प्रधानस्तस्यां वा यो रजनीकरः -- चन्द्रस्तद्वद्विमलं प्रतिपूर्णं सौम्यं च वदनं यस्याः सा तथा । 'सिंगारागारचारुवेसा' शृङ्गारस्य–रसविशेषस्यागारमिव-स्थानमिव चारु - शोभनो वेषो - नेपथ्यं यस्याः सा तथा, अथवा शृङ्गारो-मण्नभूषणाटोपस्तप्रधानः आकारः - संस्थानं चारुश्च वेषो यस्याः सा तथा ।
८०
'संगयगयहसिय भणियविहियविलाससललियसंलावणिउणजुत्तोवयारकुसला' सङ्गता - उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं चेष्टितं विलासोनेत्रचेष्टा, तथा सह ललितेन - प्रसन्नतया ये संलापाः - परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा: क्ताः - सङ्गता ये उपचारा -लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः । कचिदिदमन्यथा दृश्यते-'सुंदरथणजघणवयनकरचरणनयनलावण्णविलासकलिया' व्यक्तमेव, नवरं जघनं - पूर्वकटीभागः लावण्यम् - आकारस्य स्पृहणीयता विलासः - स्त्रीणां चेष्टाविशेषः आह च
119 11
"स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव ।
उत्पद्यते विशेषो यः श्लिष्टः स विलासः स्यात् ॥” इति ।
तथा 'कोणिएणं रन्ना रद्धिं अणुरता अविरत्ता इट्ठे सद्दफरिसरसरूवगंधे पंचविहए माणुस्सए कामभोए पञ्चणुब्भवमाणी विहरति' व्यक्तमेव, नवरं अनुरक्ता, अनुरज्य न विप्रेयेऽपि विरक्ततां गतेत्यर्थः ।
मू. (८) तस्स णं कोणिअस्स रन्नो एक्के पुरिसे विउलकयवत्तिए भगवओ पवित्तिवाउए भगवओ तद्देवसिं पवित्तिं णिवेएइ ।
तरसणं पुरिसस बहवे अण्णे पुरिसा दिन्नभत्तिभत्तवेअणा भगवओ पवित्तिवाउआ भगवओ तद्देवसियं पवित्तिं निवेदेति ॥
बृ. 'तरसण' मित्यादी विउलकयवित्तिए' त्ति विहितप्रभूतजीविक इत्यर्थः, वृत्तिप्रमाणं चेदम्-अर्द्धत्रयोदशरजतसहस्राणि यदाह - " मंडलियाण सहस्सा पीईदाणं सयसहस्सा" । 'पवित्तिवाउए' त्ति प्रवृत्तिव्यापृतो - वार्ताव्यापारवान्, वार्तानिवेदक इत्यर्थः ।
‘तद्देवसिअं’ति दिवसे भवा दैवसिकी सा चासौ विवक्षिता - अमुत्र नगरादावागतो विहरति भगवानित्यादि रूपा, दैवसिक चेति तद्दैवसिकी, अतस्तां निवेदयति । 'तस्स ण' मित्यादि तत्र 'दिन्नभतिभत्तवेयण' त्ति दत्तं भृतिभक्तरूपं वेतनं मूल्यं येषां ते तथा, तत्रभृति - कार्षापणादिका भक्तं च-भोजनमिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org