________________
मूलं-६
७९
शयनासनयानवाहनाकीर्णानि यस्य स तथा । 'बहुधणबहुजायरूवरयते' बहु-प्रभूतं धनंगणिमादिकं बहुनी च जातरूपरजते सुवर्णरीप्ये यस्य स तथा 'आओगपसोगसंपत्ते' आयोगस्यअर्थलाभस्य प्रयोगा- उपायाः सम्प्रयुक्ताः - व्यापारिता येन, तेषु वा सम्प्रयुक्तो - व्यापतोयः स तथा -
'विच्छाड्डियपउरभत्तपाणे' विच्छर्दिते- त्यक्ते बहुजनभोजनदानेनाविशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छद्दे वा नानाविधे प्रचुरे भक्तपाने - भोजनपानीये यस्य स तथा । 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहवो दासीदासा गोमहिषगवेलकाञ्च प्रभूता यस्य स तथा, गवेलकाउरभ्राः । 'पडिपुन्न जंतकोसकोट्टागाराउधागारे' प्रतिपूर्णानि यन्त्राणि च पाषाणक्षेपयन्त्रादीनि कोशी - भाण्डागारः कोष्ठागारश्च धान्यगृहं आयुधागारश्च-प्रहरणशाला यस्य स तथा ।
'बलवं’ति प्रभूतसैन्यः । ‘दुब्बलपञ्चामित्ते' दुर्बलाः प्रत्यमित्राः - प्रातिवेश्मिकनृपा यस्य स तथा । 'ओहयकंटयं' ति उपहता-विनाशिताः कण्टकाः - प्रतिस्पर्द्धिगोत्रजा यत्र राज्ये तत्तथा, क्रियाया वा विशेषणमेतत्, एवमन्यान्यपि, नवरं निहताः - कृतसमृद्धयपहाराः, मलिताः - कृतमानभङ्गाः, उद्धृता - देशान्निर्वासिताः, अत एवाविद्यमाना इति ।
तथा शत्रवः - अगोत्रजाः निर्जिताः --स्वसौन्दर्यातिशयेन परिभूताः, पराजितास्तु तद्विधराज्योपार्जने कृतसम्भावनाभङ्गाः, 'ववगयदुब्मिखं मारिभयविष्यमुक्क' मिति व्यक्तम् । 'पसंतडिंबडमरं' ति डिम्बाः - विघ्नाः डमराणि - राजकुमारादिकृतवैराज्यादीनि, 'पसंताहियडमरं त्ति क्वचित्पाठः, तत्राहितडमरंशत्रुकृतविड्वरोऽधिकविड्वरो वा । 'रज्जं पसासेमामे 'त्ति प्रशासयन्पालयन् 'पसाहेमाणे 'त्ति कचित्पाठः, तत्राप्ययमेवार्थ, 'विहरति' वर्तते ॥
मू. (७) तस्स णं कोणियस्स रन्नो धारिणी नामं देवी होज्जा, सुकुमालपाणिपाया अहीनपडिपुन्नपंचिंदियसरीरा लकखणवंजणगुणोववेआ माणुम्माणप्पमामपडिपुण्णसुजायसव्वंगसुंदरंगी ससिसोमाकारकंतपियदंसणा सुरूवा करयलपरिमिअपसत्थतिबलियवलियमज्झा कुंडलुल्लिहिअगंडलेहा कोमुइरयणियरविमलपडिपुन्नसोमवयणा ।
सिंगारागारचारुवेसा संगयगयहसि अभणिअविहिअविलाससललि असंलावणिउणजुत्तोवयारकुसला पासादीआ दरिसणिज्जा अभिरुवा पडिरूवा, कोणिएणं रन्ना भंभसारपुत्तेणं सद्धिं अनुरत्ता अविरत्ता इट्ठे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पचणुब्बवमाणी विहरति ।
वृ. राज्ञीवर्णके लिख्यते - 'अहीनपडिपुन्पंचिंदियसरीरा' क्वचित्तु 'अहीनपुन्नपंचिंदियसरीरा' अहीनानि - अन्यूनानि लक्षणतः, पूर्णानि - स्वरूपतः, पुण्यानि वा - पवित्राणि पञ्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा । 'लक्खणवंजणगुणोववेया' लक्षणानिस्वस्तिकचक्रादीनि व्यञ्जनानि - मषीतिलकादीनि तेषां यो गुणः - प्रशस्तत्वं तेनोपपेता युक्ता या सा तथा ।
'माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' तत्र मानं - जलद्रोणप्रमाणता, कथम् ? - जलस्यातिभृते कुण्डे प्रमातव्यमानुषे निवेशिते यज्जलं निस्स (ति तद्यदि द्रोणमानं स्यात्तदा तन्मानुषं मानप्राप्तमुच्यते, तथा उन्मानम् - अर्द्धभारप्रमाणता, कथम् ?, तुलारोपितं मानुषं यद्यर्द्धभारं तुलति तदा तदुन्मानप्राप्तमित्युच्यते, प्रमाणं तु-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्च मानोन्मान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org