Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 20
________________ मूलं-६ ७९ शयनासनयानवाहनाकीर्णानि यस्य स तथा । 'बहुधणबहुजायरूवरयते' बहु-प्रभूतं धनंगणिमादिकं बहुनी च जातरूपरजते सुवर्णरीप्ये यस्य स तथा 'आओगपसोगसंपत्ते' आयोगस्यअर्थलाभस्य प्रयोगा- उपायाः सम्प्रयुक्ताः - व्यापारिता येन, तेषु वा सम्प्रयुक्तो - व्यापतोयः स तथा - 'विच्छाड्डियपउरभत्तपाणे' विच्छर्दिते- त्यक्ते बहुजनभोजनदानेनाविशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छद्दे वा नानाविधे प्रचुरे भक्तपाने - भोजनपानीये यस्य स तथा । 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहवो दासीदासा गोमहिषगवेलकाञ्च प्रभूता यस्य स तथा, गवेलकाउरभ्राः । 'पडिपुन्न जंतकोसकोट्टागाराउधागारे' प्रतिपूर्णानि यन्त्राणि च पाषाणक्षेपयन्त्रादीनि कोशी - भाण्डागारः कोष्ठागारश्च धान्यगृहं आयुधागारश्च-प्रहरणशाला यस्य स तथा । 'बलवं’ति प्रभूतसैन्यः । ‘दुब्बलपञ्चामित्ते' दुर्बलाः प्रत्यमित्राः - प्रातिवेश्मिकनृपा यस्य स तथा । 'ओहयकंटयं' ति उपहता-विनाशिताः कण्टकाः - प्रतिस्पर्द्धिगोत्रजा यत्र राज्ये तत्तथा, क्रियाया वा विशेषणमेतत्, एवमन्यान्यपि, नवरं निहताः - कृतसमृद्धयपहाराः, मलिताः - कृतमानभङ्गाः, उद्धृता - देशान्निर्वासिताः, अत एवाविद्यमाना इति । तथा शत्रवः - अगोत्रजाः निर्जिताः --स्वसौन्दर्यातिशयेन परिभूताः, पराजितास्तु तद्विधराज्योपार्जने कृतसम्भावनाभङ्गाः, 'ववगयदुब्मिखं मारिभयविष्यमुक्क' मिति व्यक्तम् । 'पसंतडिंबडमरं' ति डिम्बाः - विघ्नाः डमराणि - राजकुमारादिकृतवैराज्यादीनि, 'पसंताहियडमरं त्ति क्वचित्पाठः, तत्राहितडमरंशत्रुकृतविड्वरोऽधिकविड्वरो वा । 'रज्जं पसासेमामे 'त्ति प्रशासयन्पालयन् 'पसाहेमाणे 'त्ति कचित्पाठः, तत्राप्ययमेवार्थ, 'विहरति' वर्तते ॥ मू. (७) तस्स णं कोणियस्स रन्नो धारिणी नामं देवी होज्जा, सुकुमालपाणिपाया अहीनपडिपुन्नपंचिंदियसरीरा लकखणवंजणगुणोववेआ माणुम्माणप्पमामपडिपुण्णसुजायसव्वंगसुंदरंगी ससिसोमाकारकंतपियदंसणा सुरूवा करयलपरिमिअपसत्थतिबलियवलियमज्झा कुंडलुल्लिहिअगंडलेहा कोमुइरयणियरविमलपडिपुन्नसोमवयणा । सिंगारागारचारुवेसा संगयगयहसि अभणिअविहिअविलाससललि असंलावणिउणजुत्तोवयारकुसला पासादीआ दरिसणिज्जा अभिरुवा पडिरूवा, कोणिएणं रन्ना भंभसारपुत्तेणं सद्धिं अनुरत्ता अविरत्ता इट्ठे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पचणुब्बवमाणी विहरति । वृ. राज्ञीवर्णके लिख्यते - 'अहीनपडिपुन्पंचिंदियसरीरा' क्वचित्तु 'अहीनपुन्नपंचिंदियसरीरा' अहीनानि - अन्यूनानि लक्षणतः, पूर्णानि - स्वरूपतः, पुण्यानि वा - पवित्राणि पञ्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा । 'लक्खणवंजणगुणोववेया' लक्षणानिस्वस्तिकचक्रादीनि व्यञ्जनानि - मषीतिलकादीनि तेषां यो गुणः - प्रशस्तत्वं तेनोपपेता युक्ता या सा तथा । 'माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' तत्र मानं - जलद्रोणप्रमाणता, कथम् ? - जलस्यातिभृते कुण्डे प्रमातव्यमानुषे निवेशिते यज्जलं निस्स (ति तद्यदि द्रोणमानं स्यात्तदा तन्मानुषं मानप्राप्तमुच्यते, तथा उन्मानम् - अर्द्धभारप्रमाणता, कथम् ?, तुलारोपितं मानुषं यद्यर्द्धभारं तुलति तदा तदुन्मानप्राप्तमित्युच्यते, प्रमाणं तु-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्च मानोन्मान Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150