________________
औपपातिकउपाङ्गसूत्रम् - ३
-दलचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराश्च दृश्यन्ये ये ते तथा । 'उवनिग्गयनवतरुणपत्तपल्लवकोमलउज्जलचलंतकिसलयकुमालपवालसोहियवरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैः - अत्यभिनवपत्रगुच्छैः तथा कोमलोज्ज्वलैश्चलद्भिः किशलयैः - पत्रविशेषैः तथा सुकुमारप्रवालैः शोभितानि वराङ्कुराणि अग्रशिखराणि येषां ते तथा । इह च अङ्कुरप्रवालपल्लवकिसलय पत्राणामल्पबहुबहतरादिकालकृतावस्थाविशेषाद्विशेष: सम्भाव्यत इति ।
७४
'निचं कुसुमिया' इत्यादि व्यक्तं, नवरं 'माइय'त्ति मयूरिताः 'लवइय'त्ति पल्लविताः 'थवइय'त्ति स्तबकवन्तः 'गुलइया' गुल्मवन्तः 'गोच्छिया' जातगुच्छाः, यद्यपि च स्तवकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जलमिय'त्ति यमलतयासमश्रेणितया व्यवस्थिताः, 'जुवलिय'त्ति युगलतया स्थिताः, 'विणमिय'त्ति विशेषेण फलपुष्पभारेण नताः, 'पणमिय'त्ति तथैव नन्तुमारब्धाः, प्रशब्दस्यादिकम्र्म्मार्थत्वात् । 'निच्चं कुसुमियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियसुविभत्तपिंडिमंजरिवडिंसयधर' त्ति केचित् कुसुमिताद्येकैकगुणयुक्ताः अपरे तु समस्तगुणयुक्ताः, ततः कुसुमिताश्च ते इत्येवं कर्म्मधारयः, नवरं सुविभक्ताः सुविविक्ताः सुनिष्पन्नतया पिण्डयो - लुब्यो मञ्जर्य्यश्च प्रतीतास्ता एव अवतंसकाः - शेखरकास्ता धारयन्ति ये ते तथा ।
'सुयवरहिणमयणसाललोइलकोहंगकभिंगारककोंडलकजीवंजीव
कनंदीमुहकविलपिंग
लक्खकारंडचक्कवायकलहंससारसअनेग सणगणमिहुणविरइयसहुण्णइयमहुरसरणाइए' शुकादीनां सारसान्तानामनेकेषां शकुनगणानां मिथनैर्विरचितं शब्दोन्नतिकं च- उन्नतिशब्दकं मधुरस्वरं च नादितंलपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतम् । 'सुरम्मे' अतिशयरमणीयः । संपिंडियदरियभमरमहुकरिपहकरपरिलिन्तमत्तछप्पय कुसुमासवलोलमहुरगुमगुमंतगुंजंतदेसभागे' संपिण्डिताः प्तानां भ्रमरमधुकरीणां वनसत्कानामेव पहकरत्ति - निकरा यत्र स तथा, परिलीयमाना–अन्यत आगत्य लयं यान्तो मत्तषटपदाः कुसुमासवलोलाः- किञ्जल्कलम्पटाः मधुरं गुमगुमायमानाः गुञ्जन्तश्च - शब्दविशेषं विदधानाः देशभागेषु यस्य स तथा, ततः कर्म्मधारयः ।
'अब्मन्तरपुप्फफले बाहिरपत्तोच्छष्णे पत्तेहि य पुष्फेहि य उच्छन्नपडिवलिच्छन्ने' अत्यन्तमाच्छादित इत्यर्थः, एतानि त्रीण्यपि क्वचिद्वृक्षाणां विशेषणानि दृश्यन्ते- 'साउफले' त्ति मिष्टफलः, 'निरोयए' त्ति रोगवर्जितः, 'अकण्टक' इति । कचित् 'नानाविहगुच्छगुम्ममंडवगरम्मसोहिए 'ति तत्र गुच्छा - वृत्ताक्यादयो गुल्मा - नवमालिकादयो मण्डपका - लतामण्डपादयः 'रम्मे'त्ति कवचिन्न दृश्यते । 'विचित्तसुहकेरभूए' विचत्रान् शुभान् केतून् ध्वजान् भूतः - प्राप्तः 'विचित्तसुहसे उकेउबहुले' त्ति पाठान्तरं तत्र विचित्राः शुभाः सेतवः - पालिबन्धा यत्र केतुबहुलश्च यः स तथा । 'वावीपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालहरए' वापीषु चतुरनसु पुष्करिणीषु - वृत्तासु पुष्करवतीषु वा दीर्घकासुच - ऋजुसारणीषु सुष्ठु निवेशितानि रम्याणि जालगृहकाणि
यत्र स तथा ।
मू. (३- वर्तते) पिंडिमणीहारिमसुगंधिसुहसुरभिमनहरंच महया गंधद्धणिं मुयंता नानाविहगुच्छगुम्ममंडवकधरकसु हसेउकेउबहला अनेगरहजाणजुग्गसिवियपविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org