Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 696
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १० अच्युतेन्द्रकृततीर्थकराभिषेकादिनिरूपणम् ६९७ कमप्रतिष्ठानैः सुरभिवरवारिप्रतिपूर्णैः चन्दनकृतचर्चितैः आविद्धकण्ठगुणैः पद्मोत्पलपिधानैः करतलसुकुमार परिगृहीतः, अष्ट सहस्रेण सौवर्णिकानां कलशानां यावत् अष्टसह स्रेण भौमेयानां यावत् सर्वोदकैः सर्वमृतिकाभिः सर्वतुवरैर्यावत् सौंषधिसिद्धार्थकैः सर्वद्धयावत् रवेण महता महता तीर्थकराभिषेकेण अभिषिञ्चति, ततः खलु महता महता आभिषेके वर्तमाने इन्द्रदिकाः देवाः छत्रचामर धूपकडुच्छुकपुष्पगन्ध यावत् हस्तगताः हृष्टतुष्ट, यावत् वज्रशूलपाणयः पुरतस्तिष्ठन्ति प्राञ्जलिकृता इत्यर्थः । एवं विजयानुसारेण यावत् अप्येककदेवाः आसिक्त संमार्जितोपलिप्तसिक्त शुचीसम्मृष्ट रथ्याऽन्तराऽऽपणवीथिकं कुर्वन्ति यावद् गन्धवर्तिभूतमिति, अप्येककाः हिरण्यवर्ष वर्षन्ति, एवं सुवर्णरत्नवज्राऽऽभरणपत्रपुष्पबीजमाल्यगन्धवर्षा यावत् चूर्णवर्ष वर्षन्ति, अप्येककाः, हिरण्यविधि भाजयन्ति एवं यावत् चूर्णवीधि भाजयन्ति, अप्येककाः चतुर्विधं वाचं वादयन्ति, तद्यथा ततम् १ विततम् २ घनम् ३ सुषिरम् ४ अप्येके, चतुर्विधं गेयं गायन्ति तद्यथा उत्क्षिप्तम् १ पादात्तम् २ मन्दायम् ३ रोचितावसानम् ४ अप्येककाः चतुर्विध नाटयं नृत्यन्ति तद्यथा-अश्चितम् १ द्रुतम् २ आरभटम् ३ भसोलम् ४ इति अप्येककाः चतुर्विधम् अभिनयम् अभिनयन्ति तद्यथा दाष्टीन्तिकम् १ प्रतिश्रुतिकम् २ सामान्यतो विनिपातिकम् ३ लोकमध्यावसानिकम् ४ अप्येके द्वात्रिंशद्विधं दिव्यं नाटयविधिमुपदर्शयन्ति, अपेककाः उत्पातनिपातम् निपातोत्पातम् संकुचित प्रसारितम् यावत् भ्रान्तसंभ्रान्तनाम दिव्यं नाटयविधिमुपदर्शयन्तीति । अप्येककाः विनयन्ति एवं वत्कारयन्ति आस्फोटयन्ति वलन्ति सिंहानादं नदन्ति अप्येककाः सर्वाणि कुर्वन्ति अप्येककाः हय हेपितं एवं गुलगुलायितं रथघनघनायितम् अप्येककाः त्रीण्यपि अप्येककाः 'उच्छोलंति' अग्रतो मुखे चपेटां ददति, पच्छोलंति' पृष्टतो मुखे चपेटां ददंति अप्येककाः त्रिपदी छिन्दन्ति पाददईरकं कुर्वन्ति भूमिचपेटां ददति अप्येककाः महता महता शब्देन रावयन्ति एवं संयोगाः विभाषितव्याः अप्येकका 'हक्कारयन्ति' एवं पूत्कुर्वन्ति वकारयन्ति अवपतन्ति उत्पतन्ति परिपतन्ति ज्वलन्ति तपन्ति प्रतपन्ति गर्जन्ति विद्युतं कुर्वन्ति वर्षन्ति अप्येककाः देवोत्कलिकां कुर्वन्ति एवं देवकह कहकं कुर्वन्ति, अप्येककाः दुहु दुहुकं कुर्वन्ति, भयेककाः विकृतभूतादि रूपाणि विकुर्वित्वा प्रनृत्यन्ति एक्मादि विभाषेत यथा विजयस्य यावत् सर्वतः समन्तात् ईषद्धावन्ति परिधावन्ति इति ॥ सू० १०॥ ___टीका-'तएणं से अच्चुए देविदे' ततः आभियोगिकदेवैः आनीताभिषेकसामग्र्याः, उपस्थित्यनन्तरम् खलु सोऽच्युतो देवेन्द्रः तीर्थकरमभिषिञ्चतीत्यग्रे सम्बन्धः कैः सार्द्ध 'तए ण से अच्चुए देविंदे दसहि सामाणिय'-इत्यादि टीकार्थ-इसके बाद-जब अभिषेक योग्य सब सामग्री उपस्थित हो चुकी'तहणं से अच्चुए देविंदे दसहिं सामाणिय' इत्यादि ટીકાર્ય–ત્યાર બાદ જ્યારે અભિષેક એગ્ય બધી સામગ્રી ઉપસ્થિત થઈ ગઈ ત્યારે 7.44 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798