________________
दतियञ्चः, व्युत्पत्तिनिमित्तं चैतत् प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, तत एषामायुस्तिर्यगायुर्येन-15
तेषु स्थितिर्भवति. तथा मनोरपत्यानि मनुष्याः 'मनोर्जातावण्यतौ सुक्चे'ति(पा.४-१-१६१)यत्प्रत्ययः सुगागमस्तेषा-ग
मायुर्मनुष्यायुः 'तथैव तद्भावावस्थितिहेतुतयैव देवा-उक्तनिरुक्तास्तेषामायुर्देवायुर्यन तेष्ववस्थीयते चतुर्थ 'तुः' पूरणे, दिएवं चायुःकर्म चतुर्विधम् ९नामकर्म द्विविधं, कथमित्याह-शोभते सर्वावस्थाखनेनात्मेति शुभम् अशुभं च तद्विप
रीतमाख्यातं 'सुहस्स'त्ति शुभस्यापि बहवो भेदा एवमेवाशुभस्यापि, तदपि बहुभेदमिति भावार्थः । तत्रोत्तरोत्तरभेदतः शुभनाम्नोऽनन्तभेदत्वेऽपि विमध्यमविवक्षातः सप्तत्रिंशद्भेदाः, तद्यथा-मनुष्यगति १ देवगति २ पञ्चेन्द्रियजाति ३ औदारिक ४ वैक्रिय ५ आहारक ६ तैजस ७ कार्मण ८ शरीराणि पञ्च समचतुरस्रसंस्थानं ९ वर्षभनाराचसंहननम् १० औदारिक ११ वैक्रिय १२ आहारक १३ अङ्गोपाङ्गानि त्रीणि प्रशस्तवर्ण १४ गन्ध १५ रस१६ स्पर्शाश्चत्वारः १७ मनुष्यानुपूर्वी १८ देवानुपूर्वी १९ चेत्यानुपूर्वीद्वयमगुरुलघु २० पराघातम् २१ उच्छास २२ आतप २३ उद्द्योत २४ प्रशस्तविहायोगति २५ तथा त्रस २६ बादरं २७ पजत्तं २८ प्रत्येकं २९ स्थिरं ३० शुभं ३१ सुभगं ३२ सुखरम् ३३ आदेयं ३४ यशःकीर्तिश्चेति ३५ निर्माणं ३६ तीर्थकरनाम चेति ३७, एताश्च सर्वा अपि शुभानुभावात् शुभं, तथाऽशुभनाम्नोऽपि विमध्यमविवक्षया चतुस्त्रिंशद्भेदाः, तद्यथा-नरकगति १ तिर्यग्गति २ एकेन्द्रियजाति ३ द्वीन्द्रियजाति ४ त्रीन्द्रियजाति ५ चतुरिन्द्रियजाति ६ ऋषभनाराचं ७ नाराचं
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org