Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 399
________________ *%% % तत्तन्मुखविकारादिकं हसनं च - अट्टट्टहासादि विकथाश्च - परविस्मापकविविधोल्लापरूपाः शीलखभावहसन विकथास्ताभिः 'विस्मापयन् ' सविस्मयं कुर्वन् 'परम्' अन्यं 'कंदष्पं' ति कन्दर्पयोगात्कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामिय मुक्तनीत्या तेषूत्पत्तिनिमित्ततया कान्दप तां भाव्यते - आत्मसान्नीयतेऽनयाऽऽत्मेति भावना - तद्भावाभ्यासरूपा तां 'करोति' विधत्ते, एतदनुसारेणोत्तरत्रापि भावनीयम् । मन्त्राः - प्रागुक्तरूपास्तेषामायोगो - व्यापारणं मन्त्रयोगस्तं 'कृत्वा' विधाय, यदिवा 'मंतायोगं ति सूत्रत्वान्मन्त्राश्च योगाश्च - तथाविधद्रव्यसम्बन्धा मन्त्रयोगं तत् कृत्वा' व्यापार्य 'भूत्या' भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा कर्म - रक्षार्थी वसत्यादेः परिवेष्टनं भूतिकर्म, यथोक्तम् - "भूईए मट्टियाए व सुत्त्रेण व होइ भूइकम्मं तु । वसही सरीरभंडगरक्ख"त्ति, चशब्दात्कौतुकादि च 'जे पउंजंति' प्राकृतत्वाद्यः प्रयुङ्क्ते, | किमर्थ ?, सातं सुखं रसा - माधुर्यादयः ऋद्धिः - उपकरणादिसम्पदेता हेतवो - निमित्तानि यस्मिंस्तत्सातरसर्द्धिहेतुः, कोऽभिप्रायः ? - साताद्यर्थम्, 'अभियोगं'ति आभियोगीं भावनां करोति, इह च सातरसर्द्धिहेतोरित्यभिधानं निः| स्पृहस्यापवादत एतत्प्रयोगे प्रत्युत गुण इति ख्यापनार्थम् उक्तं हि - “ऐयाणि गारवट्ठा कुणमागो आभियोगियं बंधे । वीयं गारवरहिओ कुवर आराहगो चेव || २ ||" 'ज्ञानस्य' श्रुतज्ञानादेः 'केवलिनां' केवलज्ञानवतां धर्मोपदेष्टा १ भूत्या मृत्तिकया वा सूत्रेण वा भवति भूतिकर्म तु । वसतिशरीरभाण्डकरक्षेति । २ एतानि गौरवार्थ कुर्वन्नाभियोगिकं बध्नाति । बीजं (द्वितीये पदे) गौरवरहितः करोति आराधक एव ॥ २ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408