Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जंति । तत्तो य चुया संता परिति भवसागरमणतं ॥ १॥” इति सूत्रपञ्चकार्थः ॥ इह च देववक्तव्यताऽनन्तरसूत्रकदम्बस्थाने सूत्रद्वयमेव चूण्या दृश्यते, तत्रैकं "जीवमजीवे"त्यादि प्राग्वद् व्याख्यातमेव, तथा-"पसत्थसज्झाणोवगए, कालं किच्चा ण संजए । सिद्धे वा सासए भवति, देवे वावि महडिए ॥१॥"त्ति । सम्प्रत्युपसंहारद्वारेण शास्त्रमाहात्म्यं ख्यापयितुमाहइति पाउकरे बुद्धे, नायए परिनिव्वुए । छत्तीसं उत्तरज्झाए, भवसिद्धीयसंमए ॥ २६६ ॥ त्तिबेमि ॥
॥जीवाजीवविभत्ती ॥३६॥ उत्तरज्झयणसुयक्खंधो समत्तो॥ __ 'इतिः' उपदर्शने 'इति' इत्यनन्तरमुपवर्णितान् पाउकरे'त्ति सूत्रत्वात् 'प्रादुष्कृत्य' कांश्चिदर्थतः कांश्चन सूत्रतोऽपि प्रकाश्य, कोऽर्थः ?-प्रज्ञाप्य, किमित्याह-'परिनिवृतः' निर्वाणं गत इति सम्बन्धनीयम् , कीदृशः सन् क इत्याह-बुद्धः' केवलज्ञानादवगतसकलवस्तुतत्त्वः 'ज्ञातको ज्ञातजो वा-ज्ञातकुलसमुद्भवः, स चेह भगवान् वर्द्धमानवामी 'पत्रिंशद्' इति षट्त्रिंशत्सङ्ख्या उत्तराः-प्रधाना अधीयन्त इत्यध्याया-अध्ययनानि तत उत्तराश्च तेऽध्यायाश्चोत्तराध्यायास्तान-विनयश्रुतादीन् 'भवसिद्धियसंमए'त्ति भवसिद्धिका-भव्यास्तेषां समिति-भृशं मता-अभिप्रेता भवसिद्धिकसंमतास्तान्, पठन्ति च भवसिद्धीयसंवुडे'त्ति भवे-तस्मिन्नेव मनुष्यजन्मनि सिद्धि
१ यान्ति । ततश्च च्युताः सन्तः पर्यटन्ति भवसागरमनन्तम् ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 401 402 403 404 405 406 407 408