Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 404
________________ उत्तराध्य. बृहद्वृत्तिः ॥७१२॥ " | रस्येति भवसिद्धिकः स चासौ संवृतश्चाश्रवनिरोधेन भवसिद्धिकसंवृतः, ज्ञातविशेषणमेतत्, अथवा 'पाउकरे' त्ति 'प्रादुरकार्षीत्' प्रकाशितवान् शेषं पूर्ववत् नवरं 'परिनिर्वृतः ' क्रोधादिदहनोपशमतः समन्तात्खस्थीभूतः, एतेन "सत्यानृतत्व संदेहैः, सर्वमेव वचस्त्रिधा " इति प्रसिद्धेस्त्रैविध्यसम्भवेऽपि वचनरूपत्वेनोत्तराध्ययनानां वक्तृदोषहे| तुकत्वादनृतत्व सन्देह योर्वक्तृदोषाभावख्यापनेनैकान्तसत्यत्वलक्षणं माहात्म्यमाहेति सूत्रार्थः ॥ निर्युक्तिकारोऽप्येत न्माहात्म्यख्यापनायाह जे किर भवसिद्धीया परित्तसंसारिआ य भविआ य । ते किर पढंति धीरा, छत्तीसं उत्तरज्झयणे ॥ हुति अभवसिद्धीया गंथिअसत्ता अनंतसंसारा । ते संकिलिट्टकम्मा अभविय उत्तरज्झाए ॥ ५५८॥ 'ये' इत्यनिर्दिष्ट निर्देशे 'किल' इति सम्भावने 'भवसिद्धिकाः ' भव्याः परीतः - प्राग्वत् परिमितः स चासौ संसारच तद्वन्तः परीत्तसंसारिकाः 'अत इनिठना' विति ( पा० ५ - २ - ११५) मत्वर्थीयष्ठन् कोऽर्थः ? - तथाभव्यत्वाक्षिप्तप्रत्यासन्नी भूतमुक्तयः 'भव्याः' सम्यग्दर्शनादिगुणयोग्या भिन्नग्रन्थय इति योऽर्थः उभयत्र 'चः' समुच्चये इति, व्यवच्छेदफलत्वाद्वा वाक्यस्य त एव, 'किल' इति परोक्षाप्तसूचकः, 'पठन्ति' अधीयते धीराः प्राग्वत्, कानि ? | इत्याह- 'छत्तीसं 'ति पत्रिंशद् 'उत्तराध्ययनानि' विनयश्रुतादीनि भवसिद्धिकादीनामेतत्पाठफलस्य सम्यग्ज्ञानादेः Jain Education International For Personal & Private Use Only जीवाजीव विभक्ति० ३६ ॥७१२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408