Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सद्भावेन निश्चयतस्तत्पाठसम्भवः, अन्येषां व्यवहारत एवेत्येवमभिधानम् ॥ उक्तमेवाथै विनेयानुग्रहाय व्यतिरेकत |
आह-ये भवन्ति 'अभवसिद्धयः' अभव्याःप्राग्वदचनव्यत्ययः, ग्रन्थिः-उक्तरूपस्तद्योगाद्वन्थयस्त एव ग्रन्थिकास्ते |च ते सत्त्वाश्च ग्रन्थिकसत्त्वाः, अभिन्नग्रन्थय इत्यर्थः, तथाऽनन्तः-अपर्यवसितः संसार एषामित्यनन्तसंसारा-ये मन कदाचिन्मुक्तिसुखमवाप्स्यन्ति अभव्याः "भवावि ते अणंते" त्यादिवचनतो भव्या वा ते संक्लिष्टानि-अशुभानि
कर्माणि-ज्ञानावरणीयादीनि एषामिति संक्लिष्टकर्माण इत्याह, 'अभविय'त्ति सूत्रत्वाद् 'अभव्याः' अयोग्याः 'उत्तर| ज्झाय'त्ति वचनव्यत्ययादुत्तराध्यायेत्तराध्यायविषयेऽध्ययन इति गम्यते, यद्वा 'उत्तर'त्ति प्राग्वत्पदैकदेशेऽपि पददशनादुत्तराध्ययनानि तेषामध्यायः-पाठ उत्तराध्यायस्तस्मिन् , तदनेन विशिष्टयोग्यतायामेव तात्त्विकैतदध्ययनसद्भावलक्षणं माहात्म्यमुक्तमिति गाथाद्वयार्थः ॥ यतश्चैवमतिमाहात्म्यवन्त एव उत्तराध्यायास्ततो यद्विधेयं तदाहतम्हा जिणपन्नत्ते अणंतगमपज्जवेहि संजुत्ते । अज्झाएँ जहाजोगं गुरूपसाया अहिज्झिज्जा ॥५५१॥
॥इति श्री उत्तराध्ययननियुक्तिः श्री भद्रबाहुस्वामिभिः कृता समाप्ता॥ तस्माजिनैः-श्रुतजिनादिभिः प्ररूपिताः-प्रज्ञप्तास्तान, अनन्ताश्च ते गमाश्च-अर्थपरिच्छित्तिप्रकाराः पर्यवाश्चशब्दपर्यवार्थपर्यवरूपा अनन्तगमपर्यवास्तैः, समिति-सम्यग भृशं वा युक्ताः-संयुक्तास्तान् 'अध्यायान्' प्रक्रमादुत्तराध्यायान् 'जहाजोगंति योग-उपधानादिरुचितव्यापारस्तदनतिक्रमेण यथायोगं गुरूणां प्रसादः-चित्तप्रसन्नता
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 403 404 405 406 407 408