Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 400
________________ उत्तराध्य. एच-आचार्यस्तस्य च सङ्घः प्रतीतः साधवश्च सङ्घसाधवस्तेषामवर्णवादीति सम्बन्धः, तथाऽवर्णः-अश्लाघात्मकः, सx जीवाजीव |चायं श्रुतज्ञानस्य-पुनः पुनस्त एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादाविहाभिधेयौ, मोक्षाधिकारिणां| बृहद्वृत्तिः विभक्ति च किं ज्योतियोनिपरिज्ञानेनेत्यादि भाषते, उक्तञ्च-"काया वया य ते चिय ते चेव पमाय अप्पमाया य । मोक्खा। ७१०॥ ३६ हिगारियाणं जोइसजोणीहिं किं च पुणो? ॥१॥" केवलिनां च किमेषां ज्ञानदर्शनोपयोगी क्रमेण भवत उत युगपत् ?, यदि तावत्क्रमेण तदा ज्ञानकाले न दर्शनं दर्शनकाले च न ज्ञानमिति परस्परावरणतैव प्राप्ता, अथ युगपतत एककालत्वाद् द्वयोरप्यैक्यापत्तिः, उक्तञ्च-"एंगतरसमुप्पाए अन्नोऽन्नावरणया दुवेण्हंपि । केवलदंसणणाणाणमेगकाले य एगत्तं ॥२॥" धर्माचार्यस्य जात्यादिभिरधिक्षेपणादि, उक्तञ्च-"जैचाइहिं अवन्नं विहसइ वट्टइणयावि उववाए । अहिओ छिद्दप्पेही पगासवादी अणणुकूलो॥३॥" सङ्घस्य च-बहवः श्वशृगालादिसङ्घास्तत्कोऽयमिह सङ्घः ?, साधूनां च-नामी परस्परमपि सहन्ते, तत एव देशान्तरयायिनः, अन्यथा त्वेकत्रैव संहत्या तिष्ठे १ काया व्रतानि च तान्येव तावेव प्रमादाप्रमादौ च । मोक्षाधिकारिणां ज्योतियोनिभिः किं च पुनः ? ॥ १॥ २ एकतरसमुत्पादे ॥७१०॥ अन्योऽन्यावरणता द्वयोरपि । केवलदर्शनज्ञानयोरेककाले चैकत्वम् ।। २ ॥ ३ जात्यादिभिरवर्ण (करोति) उपहसति वर्तते न चाप्युपपाते। अहितश्छिद्रपेक्षी प्रकाशवाद्यननुकूलः ॥ ३ ॥ Bain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408