Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
OTOSSERVEDEIONXX
अंतोमुटुत्तं जहन्नयं ॥ २०० ॥ एएसि वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ २०१॥ ___ मणुएत्यादि सूत्रनवकं प्राग्वत् , नवरम् ‘अकम्मकम्मभूमा यत्ति भूमेत्यस्य प्रत्येकमभिसम्बन्धात्सूत्रत्वाचाकर्मभूमी भवा अकर्मभूमा एवं कार्मभूमाश्च, अन्तरम्-इह समुद्रमध्यं तस्मिन् द्वीपा अन्तरद्वीपास्तेषु जाता अन्तरद्वीपजाः। 'पनरसतीसइविह'त्ति विधशब्दस्य प्रत्येकमभिसम्बन्धात्पञ्चदशविधाः कार्मभूमाः, कर्मभूमीनां पञ्चदशसङ्ख्यत्वात्, तद्भेदे चामीषामिह भेदस्याभिधित्सितत्वात् , पञ्चदशसङ्ख्यात्वं च भरतैरावतविदेहानां त्रयाणां प्रत्येकं पञ्चसंख्यत्वात् , त्रिंशद्विधा अकर्मभूमाः, अत्राप्यकर्मभूमीनामेतावत्सङ्ख्यत्वं हेतुः, ता हि हैमवतहरिवर्षरम्यकहरण्यवतदेवकुरूत्तरकुरुरूपाः षट् प्रत्येकं पञ्चसङ्ख्यत्वेन त्रिंशद्भवन्ति, इह च क्रमत इत्युक्तावपि पश्चानिर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यतः प्रथमं भेदाभिधानं, पठन्ति च-तीसंपन्नरसविहे'ति, तत्र च यथोद्देशं सम्बन्धो, भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बन्धनीयम् , इत्थं चैतत्तत्सङ्ख्यत्वादन्तरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तविदिकप्रसृतकोटिषु त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशतान्यायामविस्तराभ्यां प्रथमेऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्धावगाहनया योजनशतचतुष्टयाद्यायामविस्तरा द्वितीयादयः पद, तेषां च पूर्वोत्तरादिक्रमात्प्रादक्षिण्यतः प्रथमस्य चतुष्कस्य एकोरुक १ आभाषिको २ लालिको ३ वैषाणिक ४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408