Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥७०४॥
स्थापि सागरोपममेव, उक्तं हि-"चमरबलि सारमहियं" 'सेसाणं'ति, जघन्येन दशवर्षसहस्राणि प्रमाणमस्या जीवाजीव दशवर्षसहस्रिका, इयमपि सामान्योक्तावपि किल्बिषिकाणामेव स्थितिः, स्थितिप्रभावादीनां देवेषु सहैव हासादिति, उत्तरत्रापि भावनीयम् । तथा पल्योपमं वर्षलक्षाधिकमिति ज्योतिषामुत्कृष्टस्थित्यभिधानं चन्द्रापेक्षं, सूर्यस्य तु । वर्षसहस्राधिकं पल्योपममायुः, ग्रहाणां तदेव अ(न)तिरिक्तं, नक्षत्राणां तस्यैवार्द्ध, तारकाणांतचतुर्भागः तथा पल्योपमाष्टभागो ज्योतिष्षु जघन्यस्थितिरित्यपि तारकापेक्षमेव, शेषाणां पल्योपमचतुर्भागस्यैव जघन्यस्थितित्वात्, यत उक्तं 'चतुर्भागः शेषाणा'मिति (तत्त्वा-अ० ४ सू० ५३) ! इह च सर्वत्रोक्तरूपयोरुत्कृष्टजघन्यस्थित्योरपान्तरालव-17 |र्तिनी मध्यमा स्थितिरिति द्रष्टव्यम् । तथा 'प्रथम' इति प्रक्रमाद् ग्रैवेयकेऽधस्तनाधस्तने, एवं द्वितीयादिष्वपि ग्रेवेयक इति सम्बन्धनीयम् । अविद्यमानं जघन्यमिति-जघन्यत्वमस्यामित्यजघन्या तथा अविद्यमानमुत्कृष्टमित्युस्कृष्टत्वमस्यामित्यनुत्कृष्टा अजघन्या चासावनुत्कृष्टा चाजघन्यानुत्कृष्टा, मकारोऽलाक्षणिकः, महच्च तदायुःस्थित्याद्यपेक्षया विमानं च महाविमानं तच तत्सर्वे-निरवशेषा अर्थ्यमानत्वादर्थाः-अनुत्तरसुखादयो यस्मिंस्त(त्तथा तच तत्सर्वार्थ च महाविमानसर्वार्थ तस्मिन् , स्थितिरिति सर्वत्रायुःस्थितिरेव, कायस्थितित्वाभिधाने तत्रानन्तरमनुत्पत्तिरेवेत्यभिप्राय इति सप्तविंशतिसूत्रार्थः ॥
१ चमरबल्योः सागरोपममधिकं (च) शेषाणां
॥७०४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408