Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 389
________________ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, देवाणं हुज अंतरं ॥ २४४ ॥ एएसिं वन्नओ चेव, गंधओ रसफासभ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ २४५ ॥ अन्तरविधानाभिधायि च सूत्रद्वयं पूर्ववव्याख्येयम् ॥ इत्थं जीवानजीवांश्च सविस्तरमुपदर्श्य निगमयितुमाह संसारत्थाय सिद्धाय, इइ जीवा वियाहिया । रूविणो चेवऽरूवी य, अजीवा दुविहावि य ॥ २४६ ॥ संसारस्थाश्व सिद्धाश्च 'इति' इत्येवंप्रकारा जीवाः 'व्याख्याताः ' विशेषेण - सकलभेदाभिव्यात्या प्रकथिताः, रूपिणश्चैव 'रूवी य'त्ति अकारप्रश्लेषादरूपिणश्चाजीवा द्विविधा अपि व्याख्याता इति योग इति सूत्रार्थः ॥ यदुक्तं 'जीवाजीवविभक्तिं शृणुतैकमनस' इति तत्र जीवाजीवविभक्तिमभिधाय 'शृणुतैकमनस' इति वचनात् क्वचि - (कश्चित् श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येतातस्तदाशङ्कापनोदार्थमाह इइ जीवमजीवे य, सुच्चा सद्दहिऊण य । सव्वनयाण अणुमए, रमिज्जा संजमे मुणी ॥ २४७ ॥ 'इति' इत्येवंप्रकारान् 'जीवमजीवेय'त्ति जीवाजीवान् 'एतान्' अनन्तरोक्तान् 'श्रुत्वा' अवधार्य 'श्रद्धाय च' तथेति प्रतिपद्य सर्वे च ते नयाश्च सर्वनया - ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतः - अभिप्रेतस्तस्मिन् कोऽर्थः १ज्ञानसहितसम्यक् चारित्ररूपे ' रमेत' रतिं कुर्यात् क ? - सम्यग्यमनं - पृथिव्यादिजीवोपमर्दतस्तृणपञ्चकाद्यजीवो| पादानादेश्चोपरमणं संयमस्तस्मिन् 'मुनिः' उक्तरूप इति सूत्रार्थः ॥ संयमरतिकरणानन्तरं यद्विधेयं तदाह Jain Education International For Personal & Private Use Only " www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408