Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 393
________________ तश्च क्षपणेन 'तपः' इति प्रस्तावाद्भक्तपरिज्ञानादिकमनशनं 'चरेत्' अनुतिष्ठेत् , निशीथचूर्णिसम्प्रदायश्चात्र-"अन्नेवि दोवि वरिसे चउत्थं काउं आयंबिलेण पारेइ, एक्कारसमे य वरिसे पढमं छम्मासं अविगिटुं तवं काउं कजिएण पारेइ, बितिए छम्मासे विगिटुं तवं काउं आयंबिलेण पारेइ, दुवालसमं वरिसं निरंतरं हीयमाणं उसिणोदएण आयंबिलं करेति, तं कोडीसहियं भणंति जेणायंबिलस्स कोडी कोडीए मिलइ, जहा य दीवस्स वत्ती तेलं च समं |णिट्ठाइ तहा बारसमे वरिसे आहारं परिहावेइ जहा आहारसंलेखना आउयं च समं विति, इत्थं बारसगस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेलगंडूसे णिसट्टे धरित्तु खेल्लमल्लगे गिट्टहइ मा अतिरुक्खत्तणओ मुहर्जतविसंवाओ भविस्सइ, तस्स य विसंवादे णो संमं णमोकारं साहेति" इति सूत्रपञ्चकार्थः ॥ इत्थं प्रतिपन्नानशनस्याप्यशुभभावनानां मिथ्यादर्शनानुरागादीनां च परिहार्यतां तद्विपर्ययाणामासेव्यतां च ज्ञापयितुं यथाक्रममनर्थहेतुतामर्थहेतुतां च दर्शयन्नाह १ अन्ये अपि द्वे वर्षे चतुर्थ कृत्वाऽऽचामाम्लेन पारयति, एकादशे च वर्षे प्रथमं षण्मासान् अविकृष्टं तपः कृत्वा कालिकेन पारयति, ४२ द्वितीयेषु षट्सु मासेषु विकृष्टं तपः कृत्वाऽऽचामाम्लेन पारयति, द्वादशे तु वर्षे निरन्तरं हीयमानमुष्णोदकेनाचामाम्लं करोति, तत्कोतटीसहितं भण्यते येनाचामाम्लस्य कोटी कोट्या मिलति, यथा च दीपस्य वर्ती तैलं च समं निस्तिष्ठतः तथा द्वादशे वर्षे आहारं परिहापयति यथाऽऽहारसंलेखना आयुश्च समं निस्तिष्ठतः, अत्र द्वादशस्य वर्षस्य पश्चिमा ये चत्वारो मासास्तेषु तैलगण्डूषान् निसृष्टं (अतिशयेन) धृत्वा श्लेष्ममल्लके निक्षिपति, माऽतिरूक्षत्वात् मुखयत्रविसंवादो भूदिति, तस्य च विसंवादे न सम्यक् नमस्कारं साधयेत् (पठेत्) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408