Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पूरणे 'हिंसकाः ' प्राण्युपमर्दकारिणः 'इति' इत्येवंरूपा ये 'म्रियन्ते' प्राणांस्त्यजन्ति जीवास्तेषां पुनर्दुर्लभा 'बोधिः ' | प्रेत्य जिनधर्मावाप्तिः । सम्यग्दर्शनम् - उक्तखरूपं तस्मिन् रक्ताः सम्यग्दर्शनरक्ताः अनिदानाः 'शुक्ललेश्याम्' उक्तलक्षणाम् 'अवगाढा:' प्रविष्टा इति, ये म्रियन्ते जीवाः सुलभा तेषां भवेद्वोधिः । मिच्छासूत्रं प्राग्वत्, ननु पुनरुक्तत्वादनर्थकमिदं सूत्रं कृष्णलेश्यावगाहनमपि हिंसकत्वेन पञ्चाश्रवप्रमत्तत्वादितल्लक्षणाभिधानादर्थत उक्तमेवेति, अत्रोच्यते, नैयं, विशेषज्ञापनार्थत्वादस्य, उक्तं हि - “पुवभणियं तु पुच्छा जं भण्णति तत्थ कारणं वेंति । पडिसेहो य अणुन्ना करण (हेउ) विसेसोवलंभा वा ॥ १ ॥” विशेषश्च सर्वत्र तथाविधसंक्लिष्टपरिणामरूपता द्रष्टव्या, अन्यथा हि | सामान्येनैतद्विशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिदर्शनाद्यभिचार्येवेदं भवेदिति । इह चाद्येन सूत्रेण कन्दर्पभावनादीनां दुर्गतिरूपानर्थस्य निबन्धनत्वमुक्तमर्थाच्च तद्विपरीतभावनानां सुगतिखरूपार्थस्य द्वितीयेन मिथ्यादर्शनरक्तत्वादीनां दुर्लभवोधिलक्षणानर्थस्य तृतीयेन सम्यग्दर्शन रक्तत्वादीनां सुलभबोध्यात्मकार्थस्य चतुर्थेन उक्तनीत्या | मिथ्यादर्शन रक्तत्वादीनामेव विशेषज्ञापनमिति सूत्रचतुष्टयार्थः ॥ अन्यच - जिनवचनाराधनामूलमेव सकलं संलेख - | नादि श्रेयोऽतस्तत्रैवाऽऽदरख्यापनायान्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह
१ पूर्वभणितमपि यत्पश्चाद्भण्यते तत्र कारणं ब्रुवति । प्रतिषेधश्चानुज्ञा कारणविशेषोपलम्भो वा ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408