Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 392
________________ उत्तराध्य. जीवाजीव विभक्तिः बृहद्वृत्तिः ॥७०६॥ नैव 'अतिविकृष्टम्' अष्टमद्वादशादि तपः 'चरेत्' आसेवेत् । ततः 'संवत्सरार्द्ध' पुनः षण्मासलक्षणं 'विकृष्टम्' उक्त- रूपं 'तुः' एवकारार्थो विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह-'परिमियं चेव'त्ति, 'चः' पूरणे ततः परिमितमेव, द्वादशे हि वर्षे कोटीसहितमायामम्, इह तु चतुर्थादिपारणक एवेत्येवमुक्तम् , आयाम-आचाम्लं तस्मिन्ननन्तरं द्विधा विभज्योपदर्शिते संवत्सरे कुर्यात्, पठन्ति च-"परिमियं चेव आया, गुणुक्कस्सं मुणीचरे । तत्तो संवच्छरद्धऽण्णं, विगिट्टं तु तवं चरे ॥१॥” इत्थमेकादशसु वर्षेष्वतिक्रान्तेषु द्वादशे वर्षे किमसौ विदध्यात्? इत्याहकोट्यौ-अग्रे प्रत्याख्यानाद्यन्तकोणरूपे सहिते-मिलिते यस्मिंस्तकोटीसहितं, किमुक्तं भवति ?-विवक्षितदिने| प्रातराचाम्लं प्रत्याख्याय तच्चाहोरात्रं प्रतिपाल्यं, पुनर्द्वितीयेऽहि आचाम्लमेव प्रत्याचष्टे, ततो द्वितीयस्यारम्भकोटिराद्यस्य तु पर्यन्तकोटिरुमे अपि मिलिते भवत इति तत्कोटीसहितमुच्यते, अन्ये वाहुः-आचाम्लमेकस्मिन् दिने कृत्वा द्वितीयदिने च तपोऽन्तरमनुष्ठाय पुनस्तृतीयदिन आचाम्लमेव कुर्वतः कोटीसहितमुच्यते, उभयार्थसंवादिनी चेयं गाथा-"पट्टवणओ य दिवसो पञ्चक्खाणस्स णिवणओ य । जहियं समिति दुन्नि उ तं भण्णइ कोडिसहियं तु ॥१॥" इत्थमुक्तरूपं कोटीसहितमाचामाम्लं कृत्वा 'संवत्सरे' वर्षे प्रक्रमाद् द्वादशे 'मुनिः' साधुः |'मास'त्ति सूत्रत्वान्मासं भूतो मासिकस्तेनैवमार्द्धमासिकेन 'आहारेण न्ति, उपलक्षणत्वादाहारत्यागेन, पाठान्तर १ प्रस्थापको दिवसः प्रत्याख्यानस्य निष्ठापकश्च । यत्र समितः द्वौ तु तद्भण्यते कोटीसहितमेव ॥ १॥ VI 4 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408