Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जीवाजीव विभक्ति.
बृहद्वृत्तिः
३९
सत्तराध्य.
असुरेत्यादिसूत्राण्येकादश प्रायः प्रतीतान्येव, नवरम् 'असुराः' इत्यसुरकुमाराः, एवं नागादिष्वपि कुमारशब्दः सम्बन्धनीयः, सर्वेऽपि शमी कुमाराकारधारिण एव, यथोक्तं-"कुमारवदेव कान्तदर्शनाः सुकुमाराः मृदुमधुर
ललितगतयः शृङ्गाराभिजातरूपविक्रियाः कुमारवच्चोद्धृतरूपवेषभाषाभरणप्रहरणावरणयानवाहनाः कुमारवचोल्व॥७०२॥ णरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते"। 'तारागणाः' इति प्रकीर्णकतारकसमूहाः, दिशासु विशेषेण
मेरुप्रादक्षिण्यनित्यचारितालक्षणेन चरन्ति–परिभ्रमन्तीत्येवंशीला दिशाविचारिणः, तद्विमानानि सेकादशभिरेकविंशैर्योजनशतैर्मरोश्चतसृष्वपि दिवबाधया सततमेव प्रदक्षिणं चरन्तीति तेऽप्येवमुक्ताः, ज्योतींषि-उक्तन्यायतो विमानान्यालया-आश्रया येषां ते ज्योतिरालयाः । कल्प्यन्ते-इन्द्रसामानिकत्रायस्त्रिंशादिदशप्रकारत्वेन ६ देवा एतेष्विति कल्पा-देवलोकास्तानुपगच्छन्ति-उत्पत्तिविषयतया प्रामुवन्तीति कल्पोपगाः, कल्पान्-उक्तरूपाहै नतीताः-तदुपरिवर्तिस्थानोत्पन्नतया निष्क्रान्ताः कल्पातीताः। 'सोहम्मीसाणगति सुधर्मा नाम शक्रस्य सभा(सा)s
स्मिन्नस्तीति सौधर्मः कल्पः स एषामवस्थितिविषयोऽस्तीति सौधर्मिणः, तथेशानो नाम द्वितीयदेवलोकस्तन्निवासिनो देवा अपि ईशानास्त एवेशानकाः एवमुत्तरत्रापि व्युत्पत्तिः कार्याः । प्रीवेव ग्रीवा लोकपुरुषस्य त्रयोदशरज्जूपरिवर्ती प्रदेशस्तस्मिन्निविष्टतयाऽतिभ्राजिष्णुतया च तदाभरणभूता अवेया-देवावासास्तनिवासिनो देवा अपि वेयाः, न विद्यन्ते उत्तराः-प्रधानाः स्थितिप्रभावसुखद्युतिलेश्यादिभिरेभ्योऽन्ये देवा इत्यनुत्तराः, 'हेडिम'त्ति
॥७०२॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408