Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अधस्तना उपरितनषदापेक्षया प्रथमास्त्रयस्तेष्वपि 'हेहिम'त्ति' अधस्तनाः अधस्तनाधस्तनाः-प्रथमत्रिकाधोवर्तिनः | 'हेटिमा मज्झिमा तहत्ति 'अधस्तनमध्यमाः' प्रथमत्रिकमध्यवर्तिनः,'हिटिमा उवरिमा चेव'त्ति अधस्तनोपरितनाः'। प्रथमत्रिकोपरिवर्तिनः, मध्ये भवा मध्यमा-मध्यमत्रिकवर्त्तिनस्तेष्वप्यधस्तना मध्यमाधस्तनाः, एवं मध्यममध्यमा मध्यमोपरितनाः, उपरितना-उपरिवर्त्तित्रिकवर्तिनस्तेष्वधस्तना उपरितनाधस्तनाः, एवमुपरितनमध्यमा उपरितनोपरितनाः, 'इति' भेदसमाप्तौ, तत एतावद्भेदा एव अवेयकाः सुराः, अभ्युदयविघ्नहेतून् विजयन्त इति विजयास्तथैव वैजयन्ताः, 'उणादयो बहुल'मिति (पा-३-३-१) बहुलवचनात् घञ्प्रत्यये उपसर्गेकारस्यैकारः, एवं जयन्ताः परैः-अन्यैरभ्युदयविघ्नहेतुभिरजिता-अनभिभूताः अपराजिताः, सर्वेऽर्थाः सिद्धा इव सिद्धा
येषां ते सर्वार्थसिद्धाः, ते हि विजितप्रायकर्माणः, उपस्थितभद्रा एव तत्रोत्पत्तिभाजः, इतीत्यादि निगमनम् , अत्र च है वैमानिका इति वैमानिकभेदाः, सामान्यविशेषयोः कथञ्चिदनन्यत्वाद्, एवमादय इत्यादिशब्दस्य प्रकारवचनत्वादे
वंप्रकारा इत्येकादशसूत्रार्थः ॥ | लोगस्स एगदेसंमि, ते सव्वे परिकित्तिया । इत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं ॥ २१५ ॥ संतई पप्पडणाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपजवसियावि य ॥ २१६ ॥ साहीयं सागरं इक, उक्कोसेण ठिई भवे । भोमिजाण जहन्नेणं, दसवाससहस्सिया ॥ २१७ ॥ पलिओवममेगं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408