SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ अधस्तना उपरितनषदापेक्षया प्रथमास्त्रयस्तेष्वपि 'हेहिम'त्ति' अधस्तनाः अधस्तनाधस्तनाः-प्रथमत्रिकाधोवर्तिनः | 'हेटिमा मज्झिमा तहत्ति 'अधस्तनमध्यमाः' प्रथमत्रिकमध्यवर्तिनः,'हिटिमा उवरिमा चेव'त्ति अधस्तनोपरितनाः'। प्रथमत्रिकोपरिवर्तिनः, मध्ये भवा मध्यमा-मध्यमत्रिकवर्त्तिनस्तेष्वप्यधस्तना मध्यमाधस्तनाः, एवं मध्यममध्यमा मध्यमोपरितनाः, उपरितना-उपरिवर्त्तित्रिकवर्तिनस्तेष्वधस्तना उपरितनाधस्तनाः, एवमुपरितनमध्यमा उपरितनोपरितनाः, 'इति' भेदसमाप्तौ, तत एतावद्भेदा एव अवेयकाः सुराः, अभ्युदयविघ्नहेतून् विजयन्त इति विजयास्तथैव वैजयन्ताः, 'उणादयो बहुल'मिति (पा-३-३-१) बहुलवचनात् घञ्प्रत्यये उपसर्गेकारस्यैकारः, एवं जयन्ताः परैः-अन्यैरभ्युदयविघ्नहेतुभिरजिता-अनभिभूताः अपराजिताः, सर्वेऽर्थाः सिद्धा इव सिद्धा येषां ते सर्वार्थसिद्धाः, ते हि विजितप्रायकर्माणः, उपस्थितभद्रा एव तत्रोत्पत्तिभाजः, इतीत्यादि निगमनम् , अत्र च है वैमानिका इति वैमानिकभेदाः, सामान्यविशेषयोः कथञ्चिदनन्यत्वाद्, एवमादय इत्यादिशब्दस्य प्रकारवचनत्वादे वंप्रकारा इत्येकादशसूत्रार्थः ॥ | लोगस्स एगदेसंमि, ते सव्वे परिकित्तिया । इत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं ॥ २१५ ॥ संतई पप्पडणाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपजवसियावि य ॥ २१६ ॥ साहीयं सागरं इक, उक्कोसेण ठिई भवे । भोमिजाण जहन्नेणं, दसवाससहस्सिया ॥ २१७ ॥ पलिओवममेगं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy