Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 377
________________ ACCCCCC इति जलचरभेदानाह-'मत्स्याः' मीनाः 'कच्छपाः' कूर्माः गृहन्तीति पाहाः-जलचरविशेषा मकराः सुसुमारा अपि तद्विशेषा एव । 'लोएगदेसे'त्यादिसूत्राणि षट् क्षेत्रकालभावाभिधायीनि, तथेह पृथक्त्वं द्विप्रभृत्यानवान्तम। स्थलचरभेदानाह-परि-समन्तात्सपैन्ति-गच्छन्तीति परिसपोंः, एकखुरादयश्च हयादिप्रभृतिभिर्यथाक्रम योज्यन्ते, तत एकः खुरः-चरणे येषामधोवर्त्यस्थिविशेषो येषां ते एकखुराः-हयादयः एवं 'द्विखुराः' गवादयो । गण्डी-पद्मकर्णिका तद्वदृत्ततया पदानि येषां ते गण्डीपादाः-गजादयः 'सणप्फ'त्ति सूत्रत्वात्सह नखैःनखरात्मकैवर्तन्त इति सनखानि तथाविधानि पदानि येषां ते सनखपदा:-सिंहादयः। 'भुओरगपरिसप्पा यत्ति परिसर्पशब्दः प्रत्येकमभिसम्बध्यते, ततो भुजा इव भुजाः-शरीरावयव विशेषास्तैः परिसर्पन्तीति भुजपरिसः, उरो-वक्षस्तेन परिसर्पन्तीत्युर परिसर्पाः, तस्यैव तत्र प्राधान्यात्, गोधादयः अहिः-सर्पस्तदादय इति यथाक्रमं योगः, एते च 'एकैके' इति प्रत्येकम् 'अनेकधा' अनेकभेदाः, गोधेरकनकुलादिभेदतो गोणसहाचप्रलापादिभेदतः । पल्योपमानि तु त्रीण्युत्कृष्टेन तु साधिकानि पूर्वकोटीपृथक्त्वेन-उक्तरूपेण, पल्योपमायुषो हि ते न पुनस्तत्रैवोत्पद्यन्ते, ये तु पूर्वकोट्यायुषो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताष्ट वा भवग्रहणानि यावत्, पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तरभवान्तरासम्भवात् , उक्तं हि-"सचट्ठ भवा उ तिरिमणुग'त्ति, अत एतावत एवाधिकस्य १ सप्ताष्टभवान् तिर्यग्मनुष्याः ESC Jain Education Intemanora For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408