Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 374
________________ उत्तराध्य. बृहद्वृत्तिः जीवाजीव विभक्तिः ॥६९७॥ सप्तैव सागरोपमाणि तूत्कृष्टेन व्याख्याता तृतीयायां, जघन्येन पुनस्त्रीण्येव सागरोपमाणि, दश सागरोपमाणि तूत्कृष्टेन व्याख्याता चतुर्थी, जघन्येन सप्तैव तु सागरोपमाणि । सप्तदश सागरोपमाणि तूत्कृष्टेन व्याख्याता पञ्चम्यां, जघन्येन दश चैव तु सागरोपमाणि द्वाविंशतिः सागरोपमाणि तूत्कृष्टेन व्याख्याता षष्ठयां, जघन्येन सप्तदश सागरोपमाणि । त्रयस्त्रिंशत्सागरोपमाणि तूत्कृष्टेन व्याख्याता सप्तम्यां नरकपृथिव्यां, जघन्येन द्वाविंशतिः सागरोपमाणि ॥ आयुःस्थितिरुक्ता, कायस्थितिमाह-'या चेति चशब्दो वक्तव्यतान्तरोपन्यासे 'एवे'ति भिन्नक्रमः |'च' पुनरर्थः, ततो यैव च पुराऽऽयुःस्थितिनैरयिकाणां व्याख्याता 'सि'त्ति एवकारस्य गम्यमानत्वात्सैव तेषां कायस्थितिर्जघन्योत्कृष्टा भवेत् , इत्थं चैतत् , तत उद्धृत्तानां पुनस्तत्रैवानुपपत्तेः, ते हि तत उद्धृत्य गर्भजपर्याप्तकसवयेयवर्षायुष्ष्वेवोपजायन्ते, यत उक्तम्-"णरगाओ उबट्टा गब्भे पजत्तसंखजीवीसु । णियमेण होइ वासो" इत्यादि। अन्तरविधानाभिधायि सूत्रद्वयं प्राग्वत् , नवरमन्तर्मुहूर्त जघन्यमन्तरं, यदाऽन्यतरनरकादुदृत्य कश्चिजीवो गर्भजपर्याप्तकमत्स्यादिषुत्पद्यते, तत्र चातिसंक्लिष्टाध्यवसायोऽन्तर्मुहर्तमानायुः प्रतिपाल्य मृत्वाऽन्यतमनरक एवोपजायते तदा लभ्यत इति भावनीयमिति चतुर्दशसूत्रार्थः॥ इत्थं नैरयिकानभिधाय तिरश्च आहपंचिंदियतिरिक्खा उ, दुविहा ते वियाहिया । समुच्छिमतिरिक्खा उ, गब्भवतिया तहा ॥१६९ ॥ १ नरकादुद्वृत्तानां गर्भजेषु पर्याप्तसंख्यजीविषु नियमात् भवति वासः । ॥६९७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408