Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 310
________________ उत्तराध्य. बृहद्वृत्तिः ।।६६५॥ तिमार्गा रिके' देशी भाषया 'एकान्ते' स्याद्यसङ्कुले 'परकृते' परैः - अन्यैर्निष्पादिते स्वार्थमिति गम्यते 'वा' समुच्चये 'वासम्' अनगारगअवस्थानं 'तत्र' श्मशानादौ 'अभिरोचयेत्' प्रतिभासयेदर्थादात्मने भिक्षुरित्युत्तरेण योगः । 'प्रासुके' अचित्तीभूतभूभा|गरूपे, तथाऽविद्यमाना बाधाऽऽत्मनः परेषां वाऽऽगन्तुकसत्त्वानां गृहस्थानां च यस्मिंस्तत्तथा 'स्त्रीभिः' अङ्गनाभिरु - पलक्षणत्वात्पण्डकादिभिश्च 'अनभिद्भुते' अनुपद्भुते तदुपद्रवविरहित इत्यर्थः, एतानि हि मुक्तिपथप्रतिपन्थित्वेन तत्प्रवृत्तानामुपद्रवहेतुभूतानीत्येवमभिधानं 'तत्रे' ति प्रागुक्तविशेषणे श्मशानादौ सम्यकल्पयेत् - कुर्यात्सङ्कल्पयेत्, कं ? - वासं, भिक्षणशीलो भिक्षुः, स च शाक्यादिरपि स्यादत आह- परमः - प्रधानः स चेह मोक्षस्तदर्थं सम्यग् यतते परमसंयतः, जिनमार्गप्रपन्न इत्युक्तं भवति, तस्यैव मुक्तिमार्ग प्रति वस्तुतः सम्यग्यत्वसम्भवात् प्राग्वासं तत्राभिरोचयेदि - त्युक्ते रुचिमात्रेणैव कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्यभिधानम् । ननु किमिह परकृत इति विशेषणमुक्तमित्याशङ्कयाह-न 'स्वयम्' आत्मना 'गृहाणि' उपाश्रयरूपाणि 'कुर्वीत' विदधीत नैव 'अन्यैः' गृहस्थादिभिः 'कारयेत्' विधापयेदुपलक्षणत्वान्नापि कुर्वन्तमनुमन्येत, किमिति १, यतो गृहनिष्पत्त्यर्थं कर्म गृहकर्म – इष्टकामृदानयनादि | तदेव समारम्भः - प्राणिनां परितापकरत्वाद्, उक्तं हि - " परितायकरो भवे समारंभो "त्ति, यद्वा तस्य समारम्भः - | प्रवर्त्तनं गृह कर्मसमारम्भस्तस्मिन् 'भूतानाम्' एकेन्द्रियादिप्राणिनां 'दृश्यते' प्रत्यक्षत एवोपलभ्यते, कोऽसौ १ - 'वधः' विनाशः । भूतानां वध इत्युक्तं तत्र मा भूत्केषाञ्चिदेवासावित्याशङ्कयाह-' त्रसानां' द्वीन्द्रियादीनां ' स्थावराणां ' Jain Education International For Personal & Private Use Only ध्य. ३५ ||६६५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408