________________
उत्तराध्य.
बृहद्वृत्तिः
।।६६५॥
तिमार्गा
रिके' देशी भाषया 'एकान्ते' स्याद्यसङ्कुले 'परकृते' परैः - अन्यैर्निष्पादिते स्वार्थमिति गम्यते 'वा' समुच्चये 'वासम्' अनगारगअवस्थानं 'तत्र' श्मशानादौ 'अभिरोचयेत्' प्रतिभासयेदर्थादात्मने भिक्षुरित्युत्तरेण योगः । 'प्रासुके' अचित्तीभूतभूभा|गरूपे, तथाऽविद्यमाना बाधाऽऽत्मनः परेषां वाऽऽगन्तुकसत्त्वानां गृहस्थानां च यस्मिंस्तत्तथा 'स्त्रीभिः' अङ्गनाभिरु - पलक्षणत्वात्पण्डकादिभिश्च 'अनभिद्भुते' अनुपद्भुते तदुपद्रवविरहित इत्यर्थः, एतानि हि मुक्तिपथप्रतिपन्थित्वेन तत्प्रवृत्तानामुपद्रवहेतुभूतानीत्येवमभिधानं 'तत्रे' ति प्रागुक्तविशेषणे श्मशानादौ सम्यकल्पयेत् - कुर्यात्सङ्कल्पयेत्, कं ? - वासं, भिक्षणशीलो भिक्षुः, स च शाक्यादिरपि स्यादत आह- परमः - प्रधानः स चेह मोक्षस्तदर्थं सम्यग् यतते परमसंयतः, जिनमार्गप्रपन्न इत्युक्तं भवति, तस्यैव मुक्तिमार्ग प्रति वस्तुतः सम्यग्यत्वसम्भवात् प्राग्वासं तत्राभिरोचयेदि - त्युक्ते रुचिमात्रेणैव कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्यभिधानम् । ननु किमिह परकृत इति विशेषणमुक्तमित्याशङ्कयाह-न 'स्वयम्' आत्मना 'गृहाणि' उपाश्रयरूपाणि 'कुर्वीत' विदधीत नैव 'अन्यैः' गृहस्थादिभिः 'कारयेत्' विधापयेदुपलक्षणत्वान्नापि कुर्वन्तमनुमन्येत, किमिति १, यतो गृहनिष्पत्त्यर्थं कर्म गृहकर्म – इष्टकामृदानयनादि | तदेव समारम्भः - प्राणिनां परितापकरत्वाद्, उक्तं हि - " परितायकरो भवे समारंभो "त्ति, यद्वा तस्य समारम्भः - | प्रवर्त्तनं गृह कर्मसमारम्भस्तस्मिन् 'भूतानाम्' एकेन्द्रियादिप्राणिनां 'दृश्यते' प्रत्यक्षत एवोपलभ्यते, कोऽसौ १ - 'वधः' विनाशः । भूतानां वध इत्युक्तं तत्र मा भूत्केषाञ्चिदेवासावित्याशङ्कयाह-' त्रसानां' द्वीन्द्रियादीनां ' स्थावराणां '
Jain Education International
For Personal & Private Use Only
ध्य. ३५
||६६५ ॥
www.jainelibrary.org