SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ पृथिव्याघेकेन्द्रियाणां 'चः' समुच्चये तेषामपि 'सूक्ष्माणाम्' अतिश्लक्ष्णानां शरीरापेक्षया न जीवप्रदेशापेक्षया. तयैवंप्रायव्यवहारायोगात्, 'बादराणां च' एवमेव स्थूलाना, यद्वा सूक्ष्मनामकर्मोदयात्सूक्ष्माणां तेषामपि प्रमादतो ४ भावहिंसासम्भवाद्वादरनामकर्मोदयाच्च बादराणाम् , उपसंहर्जुमाह-'तम्ह'त्ति यस्मादेवं भूतषधस्तस्माद्गृहसमारम्भ 'संयतः' सम्यगहिंसादिभ्य उपरतोऽनगार इत्यर्थः 'परिवर्जयेत्' परिहरेत् , इत्थमाश्रयचिन्तां विधायाहारचिन्तामाह-'तथैव' तेनैव प्रकारेण भक्तानि च-शाल्योदनादीनि पीयन्त इति पानानि-पयःप्रभृतीनि तानि च भक्तपानानि तेषु, पचनानि च-खयं विक्लेदापादनक्कथनानि पाचनानि च-तान्येवान्यैः पचनपाचनानि तेषु च भूतवधो दृश्यत इति प्रक्रमः, ततः किमित्याह-प्राणा-द्वीन्द्रियादयो भूतानि-पृथिव्यादीनि तेषां दया-रक्षणं प्राणभूतदया तदर्थ-तद्धेतोः, किमुक्तं भवति ?-पचनपाचनप्रवृत्तानां यः संभवी जीवोपघातः स मा भूदिति न पचेत्खतो भक्तादीति प्रक्रमो नापि पाचयेत्तदेवान्यैः । अमुमेवार्थ स्पष्टतरमाह-जलं च-पानीयं धान्यं च-शाल्यादि तनिश्रिताःतत्रान्यत्र चोत्पद्य ये तन्निश्रया स्थिता पृतरकभुजगेलिकापिपीलिकाप्रभृतय उपलक्षणत्वात्तद्रूपाश्च 'जीवाः' प्राणिनः, एवं पृथ्वीकाष्ठनिश्रिता एकेन्द्रियादयो हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानादिषु, यत एवं तस्माद्भिक्षुर्न पाच-18 येत्, अपेर्गम्यमानत्वात्पाचयेदपि न किं पुनः खयं पचेत् , अनुमतिनिषेधोपलक्षणं चैतत् । अपरं च विसर्पतीति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy