SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ अनेन मूलगुणा उक्ताः, एतद्यवस्थितस्यापि च शरीरिणोऽवश्यमाश्रयाहाराभ्यां प्रयोजनं, तयोश्च तदतीचारहेतुत्वमपि कदाचित्स्यादिति मन्वानस्तत्परिहाराय सूत्रषदेन तावदाश्रयचिन्तां प्रति यतते-'मनोहर' चित्ताक्षेपकं, किं तत् ?चित्रप्रधानं गृहं चित्रगृहं, तदपि कीशंी-माल्यैः-प्रन्थितपुष्पैधूपनैश्च-कालागुरुतुरुष्कादिसम्बन्धिमिर्वासितंसुरभीकृतं माल्यधूपनवासितं, सह कपाटेन प्रतीतेन वर्तत इति सकपाटं तदपि 'पाण्डरोल्लोचं' श्वेतवस्त्रविभूषितं मनसाऽप्यास्तां वचसा 'न प्रार्थयेत्' नाभिलषेत्, किं पुनस्तत्र तिष्ठेदिति भावः। किं पुनरेवमुपदिश्यते ? इत्याह'इन्द्रियाणि' चक्षुरादीनि 'तुः' इति यस्मात् 'भिक्षोः' अनगारस्य 'तारशे' तथाभूते 'उपाश्रये' आश्रये दुःखेन क्रियन्तेकरोतेः सर्वधात्वर्थत्वाच्छक्यन्ते दुष्कराणि-दुःशकानीत्यर्थः 'तुः' एवकारार्थो दुष्कराण्येव धारयितुम्' उन्मार्गप्रवृत्तिनिषेधतो मार्ग एव व्यवस्थापयितुं, पठ्यते-दुष्कराणि 'णिवारेतुं'ति, तत्रापि 'निवारयितुम्' इति नियत्रितुं खखविषयप्रवृत्तेरिति गम्यते, कीशि-काम्यमानत्वात्कामा-मनोज्ञा इन्द्रियविषयास्तेषु रागः-अभिष्वङ्गस्तस्य विवर्द्धने विशेषेण वृद्धिहेतौ कामरागविवर्द्धने, तथा च तथाविधचित्तव्याक्षेपसम्भवात्कस्यचिन्मूलगुणस्य कथञ्चिदतीचारसम्भवो दोष इत्येवमुपदिश्यत इति भावः । एवं तर्हि व कीशि स्थातव्यमित्याह-श्मशाने प्रेतभूमौ 'शून्यागारे' उद्वसितगृहे 'या' विकल्पे 'वृक्षमूले वा' पादपसमीपे 'एकदा' इत्येकस्मिंस्तथाविधकाले, पठ्यते च-'एक्कतो'त्ति 'एककः' रागद्वेषवियुतोऽसहायो वा तथाविधयोग्यतया 'पराक्ये' परसम्बन्धिान तथाविधप्रतिबन्धेनाखीकृते पाठान्तरतः पति Jain Education Inter n al For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy