________________
उत्तराध्ययनसूत्रम् १०९३
లె లెలె తాతా
PPPPPP
उपेत्यादत्तमाददानः ।। १५ ।। अव्यवधानायां सचित्तपृथ्व्यां ऊर्ध्वस्थानशयनोपवेशनानि कुर्वन् ।। १६ ।। एवं संस्निग्धायां सचित्तरजोव्याप्तायांच भुवि सचित्तशिलादी घुणादिजीवावासे काष्ठादौ वा स्थानादि कुर्वन् ।। १७ ।। साण्डे सजीवान्विते बीजहरितावश्यायोत्तिङ्गपनकाम्बुमृत्ति - कामर्कटसन्तानसहिते विष्टरादौ स्थानादि कुर्वाणः ।। १८ ।। उपेत्य कन्दमूलपुष्पफलबीजहरितानि भुञ्जानः ।। १९ । । वर्षमध्ये दश दकलेपान् मातृस्थानानि च कुर्वन् ।। २० ।। उपेत्य सचित्तजलार्द्रहस्तदवभाजनादिनाशनादि गृहीत्वा भुञ्जानः ।। २१ । । द्वाविंशतौ परीषहेषु पूर्वोक्तेषु यो भिक्षुर्यतते परिहार सहनादिभिः ।। १५ ।।
तेवीस सूअगडे, रूवाहिएसु सुरेसु य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।। १६ ।।
व्याख्या - त्रयोविंशत्यध्ययनयोगात् त्रयोविंशति तच तत्सूत्रकृतं च त्रयोविंशतिसूत्रकृतं, त्रयोविंशतिः सूत्रकृताध्ययनानि चामूनि "पुंडरीय १ किरिअठाणं २, आहारपरिण्ण ३ अपचक्खाणकिरिआ ४ य । अणगार ५ अद्द ६ नालंद ७, सोलसाई च तेवीसं । । १ । । " अत्र 'सोलसाइंति' षोडश ॥ च समयादीनि पूर्वोक्तानीति त्रयोविंशतिः । तथा रूपमेकस्तदधिकेषु प्रक्रमात् सूत्रकृताध्ययनेभ्यः सुरेषु च भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपेषु ॥ ॥ यथाक्रमं दशाष्टपञ्चैकविधेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना ।। १६ ।।
पणवीसभावणाहिं, उद्देसेसु, दसाइणं । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।। १७ ।।
व्याख्या - पञ्चविंशती 'भावणाहिंति' भावनासु महाव्रतविषयासु, उक्तं हि - "पणवीसं भावणाओ पण्णत्ताओ तंजहा- पढमव्वए, इरिसमिई १ मणगुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोअणं ४ आयाणभंडमत्तनिक्खेवणासमिई ।। ५ ।। बीअव्वए, अणुवीअभासणया १
Jain Education International
For Personal & Private Use Only
अथचरणविधिनाम एकत्रिंशमध्ययनम्
१०९३
www.jninelibrary.org