Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
उत्तराध्ययन
सूत्रम्
१२२६
जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम्
।। अथ प्रशस्तिः ।। अनन्तकल्याणनिकेतनं तं, नमामि शङ्केश्वरपार्श्वनाथम् । यस्य प्रभावाद्वरसिद्धिसौध-मध्यास्त निर्विघ्नमसौ प्रयत्नः ।।१।। श्रिया जयन्तीं द्युतिमैन्दवींद्रा-ग्मुदाभिवन्दे श्रुतदेवतां ताम् । प्रसादमासाद्य यदीयमेषा, वृत्तिर्मया मन्दधियापि तेने ।।२।। सत्कीर्तिलक्ष्मीपरिवर्द्धमानं, श्रीवर्द्धमानं जिनराजमीडे । पुनाति लोकं सुरसार्थशाली, यदागमो गाङ्ग इव प्रवाहः ।।३।। तच्छिष्यमुख्यसकलर्द्धिपात्रं, श्रीगौतमो मे शिवतातिरस्तु । गणी सुधर्मा च सतां सुधर्मा-वहोस्तु वीरप्रभुदत्तपट्टः ।।४।। जम्बूद्वीपे सुरगिरिरिव चन्द्रकुलं विभाति तद्वंशे । मेरौ नन्दनवनमिव तस्मिन्नन्दति तपागच्छः ।।५।। तत्र मनोरमसुमनोराजिविराजी रराज मुनिराजः । श्रीआनन्दविमलगुरुरमरतरुनन्दन इवोः ।।६।। शुद्धां क्रियां दधौ यः सुधाव्रतव्रततिमिव मरुदृक्षः । कल्पतरो: सौरभमिव यस्य यशो व्यानशे विश्वम् ।।७।। तत्पट्टगगनदिनमणिरजनिष्ट जनेष्टदानदेवमणिः । श्रीविजयदानमुनिमणिरनणुगुणाधरितरजनिमणिः ।।८।।
श्रीमान् जगद्गुरुरिति प्रथितस्तदीय-पट्टे स हीरविजयाह्वयसूरिरासीत् ।। योऽष्टाऽपि सिद्धिललनाः सममालिलिङ्गः, तत्स्पर्द्धयेव दिगिभांश्च यदीयकीर्तिः ।।९।।
Isl
Jell Jell llell
१२२६
For Personal Private Use Only

Page Navigation
1 ... 1266 1267 1268 1269 1270 1271 1272 1273 1274