Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 1270
________________ उत्तराध्ययनसूत्रम् १२२८ STILLATE DESEEDS GOODOoe2e2e तेषां तपागणपयोनिधिशीतभासां विश्वत्रयीजनमनोरमकीर्त्तिभासाम् । वाग्वैभवाधरितसाधुसुधासवानां, राज्ये चिरं विजयिनि व्रतिवासवानाम् ।। १५ ।। Jain Education International इतश्च - शिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि - श्रीकान्ताः परतीर्थिकव्रजरजःपुञ्जकपाथोधराः । पूर्वं श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे, यैर्वैराग्यरतिं वितीर्य विरतिं चक्रे ममोपक्रिया ।। १६ ।। विनेयास्तेषां च प्रसृमरयशः पूरितदिशः, श्रुतं दत्त्वा मादृग्जडजनमहानुग्रहकृतः । महोपाध्याय श्रीमुनिविमलपादाः समभवन्, भवोदन्वन्मज्जज्जननिवहबोहित्थसदृशा ।। १७ ।। वैरङ्गिकाणामुपकारकाणां वचस्विनां कीर्त्तिमतां कवीनाम् । अध्यापकानां सुधियां च मध्ये, दधुः सदा ये प्रथमत्वमेव ।। १८ ।। तेषां शिष्याणुरिमां भावविजयवाचकोऽलिखद्वृत्तिम् । स्वपरावबोधविधये स्वल्पधियामपि सुखावगमाम् ।। १९।। निधिवसुरसवसुधा (१६८९) मितवर्षे 'श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत्सिद्धिम् ।। २० ।। १ श्री रोहिणीपुरि महद्ध ।। इति "घ" पुस्तके For Personal & Private Use Only 1SSSSSSS. 05STTDDDDDDD जीवाजीव विभक्तिनाम षटत्रिंशमध्ययनम् १२२८ www.jninelibrary.org

Loading...

Page Navigation
1 ... 1268 1269 1270 1271 1272 1273 1274