Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 1266
________________ उत्तराध्ययन सूत्रम् १२२४ तस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा च, चस्यगम्यत्वादेतानि कुर्वन्तो जन्ममरणानि उपचारात्तन्निमित्तकर्माणि बध्नन्ति, 6 जीवाजीव॥ सङ्क्लेशहेतुतया शस्त्रग्रहणादीनामनन्तभवनिबन्धनत्वात् । अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता तथा चेहार्थतो मोही भावनोक्ता । विभक्तिनाम is यतस्तल्लक्षणमिदं - "उम्मग्गदेसओ मग्गनासओ मग्गविपडिवत्ती अ । मोहेण य मोहित्ता समोहणं भावणं कुणइ ।।१।।" फलं चासामनन्तरं । षटत्रिंश8 परम्परं चैवं - "एयाओ भावणाओ, भावित्ता देवदुग्गई जंति । तत्तो अचुआ संता, पडंति भवसागरमणंतं ।।१।।" इहानन्तरं फलं मध्ययनम् का देवदुर्गतिगमनं परम्परं तु भवाब्धिभ्रमणमिति सूत्रार्थः ।। २६५ ।। सम्प्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाह - इइ पाउकरे बुद्धे, नायए परिनिव्वुए । छत्तीसं उत्तरज्झाए, भवसिद्धियसंमएत्ति बेमि ।। २६६।। व्याख्या - इति एताननन्तरोक्तान् पाउकरेत्ति' प्रादुष्कृत्य कांश्चिदर्थत: कांश्चित्तु सूत्रतोऽपि प्रकाश्य बुद्धः केवलज्ञानावगतसकलवस्तुतत्त्वो foll ज्ञातजो ज्ञातकुलोद्भवः स चेह श्रीवर्द्धमानस्वामी परिनिर्वृतो निर्वाणं गतः, यद्वा पाउकरेत्ति' प्रादुरकार्षीत् प्रकाशितवान् शेषं प्रागवन्नवरं परिनिर्वृतः M कषायादितपोपशमात्स्वस्थीभूतः । कान् प्रादुरकार्षीदित्याह-षट्त्रिंशदुत्तराः प्रधाना अध्याया अध्ययनानि उत्तराध्यायास्तान्, भवसिद्धिकानां ॥ भव्यानां सम्मतानभिप्रेतान् । इति परिसमाप्तौ ब्रवीमीति प्राग्वदिति सूत्रार्थः ।। २६६ ।। इति षट्त्रिंशमध्ययनम् ।।३६।। ॥ इति षट्त्रिंशमध्ययनं सम्पूर्णम् ।। धर्मकल्पद्रुमस्कन्धस्यास्य श्रुतस्कन्धस्य नियुक्तिकारोऽप्येवं माहात्म्यमाह - १२२४ lll llo foll llall For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274