________________
उत्तराध्ययन
सूत्रम्
१०९६
पुनरधिकरणमुत्पाद्य तीर्थभेदः । । १२ ।। जानतोऽपि तद्दोषं वशीकरणादीनां प्रयोगः ।। १३ ।। वान्तकामस्याप्यैहिकामुष्मिकविषयाणां प्रार्थनम् ६ ।। १४ ।। अबहुश्रुतस्यापि स्वस्य बहुश्रुतोऽहमिति भाषणम् ।। १५ ।। तथा अतपस्विनोऽपि तपस्वी अहमिति भाषणम् ।। १६ ।। गृहादिमध्ये लोकं क्षिप्त्वा सधूमाग्निप्रदीपनम् ।। १७ । । स्वयमकार्यं कृत्वाऽन्येन कृतमिति कथनम् ।। १८ ।। अशुभमनोयोगयुक्तत्वेन प्रचुरमायाप्रयोगात्सकललोकवञ्चनम् ।। १९ ।। सत्यं वदन्तमन्यं मृषा वक्षीति कथनम् ।। २० ।। अक्षीणकलहत्वम् ।। २१ ।। मार्गे लोकान्प्रवेश्य तद्वित्तहरणम् ।। २२ ।। विश्वास्य जनं तत्कलत्राणामुपभोगः ।। २३ ।। अकुमारस्यापि कुमारोऽहमिति भाषणम् ।। २४ ।। एवमब्रह्मचारिणोऽपि ब्रह्मचार्यहमिति भणनम् ।। २५ ।। येनैवैश्वर्यं नीतस्तस्यैव वित्तहरणम् ।। २६ । । यत्प्रभावादभ्युदितस्तस्यैव भोगाद्यन्तरायकरणम् ।। २७ ।। सेनापतिपाठकनृपश्रेष्ठिव्यापादनम् ।। २८ ।। अपश्यतोऽपि पश्यामि देवानिति कथनम् ।। २९ ।। किं ॥ कामगर्द्दभैर्देवैरित्यादिको देवानामवर्णवादः ।। ३० ।। इति रूपेषु यो भिक्षुयतते त्यागादिना ।। १९ ।।
सिद्धाइगुणजोएसु, तित्तीसासायणासु य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।। २० ।।
व्याख्या – सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशत्, ते च संस्थान ५ वर्ण ५ गन्ध २ रस ५ स्पर्श ८ वेदाभावा २८ कायवा २९ ऽ सङ्गत्त्वा ३० ऽ जन्मत्व ३१ रूपाः, नवविधदर्शनावरणचतुर्विधायुष्कपञ्चविधज्ञानावरणपञ्चविधान्तरायद्विद्विभेदवेदनीयगोत्रमोहनामकर्मणामभावरूपा वा । 'जोगेसुत्ति' सूचकत्वात् सूत्रस्य योगसङ्ग्रहा यैर्योगाः शुभमनोवाक्कायव्यापाराः सङ्गृह्यन्ते, ते च द्वात्रिंशदमी - शिष्येण प्रशस्तयोगसङ्ग्रहाय आचार्यायालोचना श्रावणीया ।। १ ।। आचार्येणापि प्रशस्तयोगसङ्ग्रहायैव दत्तायामालोचनायां ॥
DATT
Jain Education International
For Personal & Private Use Only
अथचरणविधिनाम
एकत्रिंशमध्ययनम्
१०९६
www.jainelibrary.org