Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टि
शलाकापुरुषचरिते महाकाव्ये
ARRORSA
चतुर्थ पर्व द्वितीयः
सर्गः
॥४९
॥
श्रीवासुपूज्यचरितम् ।
चलत्काञ्चनंताडको लोलरत्नललन्तिकः। हेमासिधेनुरुचिरसौवर्णकटिसूत्रकः॥ २०२॥ पादबद्धरणरणत्नघर्घरमालिकः । काकँपक्षधरः क्रीडन् स कस्य न ददौ मुदम् ॥ २०३ ॥ युग्मम् ।। प्रच्युत्य प्राणतात् सोऽपि जीवः पर्वतभूपतेः । सरस्यां हंसवदुमादेव्याः कुक्षाववातरत् ॥ २०४॥ सुप्ता सप्त महाखमान् शाङ्गंभृजन्मसूचकान् । मुखे प्रविशतोऽद्राक्षीदुमादेवी तदैव हि ॥ २०५॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । पूर्णाम्भोदमिव प्रावृट् सा श्याम सुषुवे सुतम् ॥ २०६॥ ब्रह्माऽथ परमब्रह्मनिमग्न इव संमदात् । अर्थिनः प्रीणयश्चक्रे सूनोर्जन्ममहोत्सवम् ॥२०७॥ शुमेषु ग्रह-नक्षत्र-तिथि-वारेषु सोत्सवम् । सूनोपृिष्ठ इत्याख्यां यथार्थामकरोन्नृपः ॥२०८॥ अङ्गणोद्भतककेल्लिमिव तापसयोषितः । पञ्चभिः कर्मभिः पञ्च धान्यस्तं पर्यलालयन् ॥२०९॥ धावन्तमुल्ललन्तं वा धान्यस्तं खैरचारिणम् । परिप्लवं पारदवन्नादातुं पाणिनाऽशकन् ॥ २१०॥ पितुर्मातुायसश्च भ्रातुः सह मुदाऽन्वहम् । दर्शयन्नन्तरं खस्य द्वितीयो ववृधे हरिः॥२११॥ कट्यां हृदि च पृष्ठे च स्कन्धदेशे च तं मुहुः । विजयो धारयामास धात्री षष्ठीव सौहृदात् ॥ २१२ ॥ अवतस्थौ ययौ शिश्ये न्यपीदद् बुभुजे पपौ। द्विपृष्टोऽप्यनुविजयं स्नेहकार्मणयत्रितः ॥ २१३ ॥ निमित्तीकृत्य चाचार्यमलङ्ग्यात् पितृशासनात् । काले कला जगृहतुर्लीलया सीरि-शाङ्गिणौ ॥ २१४ ॥ अलब्धमध्यौ धवलश्यामलौ तौ सहोदरौ । क्षीरोद-लवणाम्भोधी इवाऽभातां वपुर्भृतौ ॥ २१५॥
१ ताडका-कुण्डलम् । २ ललन्तिका-कण्ठभूषा लम्बमाना। ३ असिधेनुः-छुरिका । * रणझण सं० ॥ ४ बालाना शिखा काकपक्षः। ५ शाईभृत्-वासुदेवः। ६ चञ्चलम् । ७ द्विपृष्ठभ्राता तन्नामा बलदेवः। । तस्थे य सं० ॥ ८ निद्रां चकार ।
C RACROCARROCRACC
॥३९
॥
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org.
NP
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574