Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टि ७२
Jain Education Intern
गत्वा सपरिवारोऽपि भोजनावसरं कुरु । सर्वार्थसाधकः कायश्चलत्येष हि भोजनात् ॥ १०७ ॥ एवं पित्रा समादिष्टो भूयो भूयोऽपि साग्रहम् । सदुःखो बुभुजे किश्चिद् विष्णुः समददन्तिवत् ॥ १०८ ॥ श्रीखण्डमप्यनादायावसानश्वान्यवाससी । नाटयन्नतिदुःखेनावतप्ते नकुलस्थितम् ॥ १०९ ॥ भुक्तमात्रो निजावासात् पादचारी जनार्दनः । पितुर्जगाम सदनं दीनाशेषपरिच्छदः ॥ ११० ॥ युग्मम् ॥ तत्र च प्रविशन् विष्णुर्जननीद्वाःस्थयैकया । अग्रेभूत्वा सकरुणं व्यज्ञपीदमुदश्रिया ॥ १११ ॥ कुमार ! परित्रायस्व परित्रायस्व नन्वसौ । जीवत्यपि महाराजे देवीदं दुर्व्यवस्यति ॥ ११२ ॥ तदाकर्ण्य वचो विष्णुः संभ्रान्तो मातुरालयम् । जगाम वीक्षाञ्चक्रे च मातरं ब्रुवतीमिति ॥ ११३ ॥ पतिप्रसादादुद्भूता ये प्राज्या रत्नराशयः । अनन्तं काञ्चनं यच्च ये वा रजतसंचयाः ॥ ११४ ॥ मुक्तामया वज्रमया जात्यरत्नमयाश्च ये । संमिश्रा ये च नेपथ्यसमुद्रदायाः सहस्रशः ।। ११५ ॥ यच्चान्यत् कोशसर्वस्वं सप्तक्षेत्र्यां तदर्प्यताम् । महापथप्रस्थितानां पाथेयं हीदमादिमम् ॥ ११६ ॥ पत्युर्विपेत्तौ वैधव्यसहाऽस्मि न मनागपि । अहं तदग्रे यास्यामीत्यनलः सज्यतां द्रुतम् ॥ ११७ ॥ इति ब्रुवाणां जननीं जननीं दुःखसंपदः । उपेत्य नत्वा च हरिर्व्याहरद् गद्गदाक्षरम् ॥ ११८ ॥ मातर्मातस्त्वमपि मां मन्दभाग्यं किमुज्झसि । अहो ! विरुद्धं मे दैवं देव्यैवं यत् प्रचक्रमे ॥ ११९ ॥ अम्मादेव्यप्युवाचैवं तज्ज्ञैः सम्यक् परीक्षितः । त्वत्तातस्योपस्थितोऽयं रोगः प्राणहरो हरे ! ॥ १२० ॥
* दृणुः सगद्गदं वदन् । सं० ॥ १ मदसहितो गजो यथा सदुःखं स्वरूपं भुङ्क्ते तद्वत् । २ चन्दनम् । ३ अवतसे स्थाने नकुलदश्रया । संवृ० का० ॥ ४ अयोग्यं व्यवस्यतीत्यर्थः । ५ मरणे । ६ जनयित्रीम् । 'क्षरः । संबृ० का० । ७ वैद्येरित्यर्थः ।
स्थितिवत् ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574