Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
रमालोक्य विस्मयमेरमानाती। न्यायवर्ती चक्रवर्ती दावाशाम्यङ्गमदहन ॥ ३४६ ॥
ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे । प्रासादद्वारि नृपतेस्तस्थतुःस्थसनिधौ ॥ ३४५॥ आसीत सनत्कुमारोऽपि तदा प्रारब्धमजनः । मुक्तनि:शेषनेपथ्यः सर्वाङ्गाम्यङ्गमद्वहन ॥ ३४६॥ .. द्वारस्यौ द्वारपालेन द्विजाती तो निवेदितौ । न्यायवर्ती चक्रवर्ती तदानीमप्यवीविशद ॥ ३४७॥ सनत्कुमारमालोक्य विसयमेरमानसौ । धूनयामासतुर्मोलिं चिन्तयामासतुश्च तौ ॥३४८॥. ललाटपट्टः पर्यस्ताष्टमीरैजनिजानिकः । नेत्रे कर्णान्तविश्रान्ते जितनीलोत्पलत्विषी ॥३४९॥ दन्तच्छदौ पराभूतपक्वबिम्बफलच्छवी । निरस्तशुक्तिको कौँ कण्ठोऽयं पाश्चजन्यजित् ॥३५०॥ करिराजकराकारतिरस्कारकरी भुजौ । वर्णशैलशिलालक्ष्मीविलुण्टाकमुरस्थलम् ॥ ३५१॥ मध्यभागो मृगारातिकिशोरोदरसोदरः । किमन्यदस्य सर्वाङ्गलक्ष्मीर्वाचा न गोचरा ॥ ३५२ ॥ अहो! कोऽप्यस्य लावण्यसरित्पूरो निरर्गलः । येनाभ्यङ्गंन जानीमो ज्योत्स्नयोडेप्रमामिव ॥ ३५३॥ यथेन्द्रो वर्णयामास तथेदं भाति नान्यथा । मिथ्या न खलु भाषन्ते महात्मानः कदाचन ॥ ३५४॥ किंनिमित्तमिहायातौ भवन्तौ द्विजसत्तमौ? । इत्थं सनत्कुमारेण पृष्टौ तावेवमूचतुः॥ ३५५॥ ... लोकोत्तरचमत्कारकारकं सचराचरे । भुवने भवतो रूपं नरशाल! गीयते ॥ ३५६ ॥ दरतोऽपि तदाकर्ण्य तरङ्गितकुतूहलौ । विलोकयितुमायातावावामनिवासव! ॥ ३५७॥ वर्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भतम् । रूपं नृप! ततोऽप्येतत् सविशेष निरीक्ष्यते ॥ ३५८॥
प्रारम्भ मजन खान येन । २ द्विजौ। रजनिजानिबन्द्रः। * 'बिम्बीफ' का.॥ ४ विलुण्टाकऔरः । ५वारकप्रभाम् । जलशोभनम् संवृ०॥ ६ भवनिपतेः।
Jain Education in
For Private & Personal Lise Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 567 568 569 570 571 572 573 574