Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥४०१॥ कौमारे वर्षलक्षाधं मण्डलित्वे तदेव हि । दशवर्षसहस्राणि ककुभामुपसाधने ॥४०२॥ चक्रित्वे नवतिवर्षसहस्राणि व्रते पुनः । वर्षलक्षमिति व्यब्दलक्षायुस्तुर्यचक्रिणः॥४०३॥
ज्ञातेऽवसानसमयेऽनशनं प्रपद्य लक्षत्रयेण शरदां परिपूरितायुः । सुध्यानपश्चपरमेष्ठिसनत्कुमारः कल्पे सुरः समजनिष्ट सनत्कुमारे ॥४०४॥ पश्चाहन्तः सीरिणः पञ्च पञ्चोपेन्द्राः पञ्चैतड्विश्चक्रिणौ द्वौ। यत्रोक्ता द्वाविंशतिः सूत्ररत्नाम्भोधेस्तुर्य पर्व तद् वः श्रियेऽस्तु ॥ ४०५॥ सूत्रात् किश्चिदुदीरितं कथाभ्यः किश्चिद् योगपटाच्च किश्चिदत्र । तेषु स्याद् यदि किश्चनापि मिथ्या मिथ्यादुष्कृतमस्तु तत्र सन्तः। ॥ ४०६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि सनत्कुमारचरितवर्णनो नाम
सप्तमः सर्गः संपूर्णः।
॥ समाप्तं चेदं चतुर्थ पर्व ॥ १ दिशा जये। २ बलभद्राः। ३ वासुदेवाः। प्रतिवासुदेवाः ।
Jain Education
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 571 572 573 574