SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥४०१॥ कौमारे वर्षलक्षाधं मण्डलित्वे तदेव हि । दशवर्षसहस्राणि ककुभामुपसाधने ॥४०२॥ चक्रित्वे नवतिवर्षसहस्राणि व्रते पुनः । वर्षलक्षमिति व्यब्दलक्षायुस्तुर्यचक्रिणः॥४०३॥ ज्ञातेऽवसानसमयेऽनशनं प्रपद्य लक्षत्रयेण शरदां परिपूरितायुः । सुध्यानपश्चपरमेष्ठिसनत्कुमारः कल्पे सुरः समजनिष्ट सनत्कुमारे ॥४०४॥ पश्चाहन्तः सीरिणः पञ्च पञ्चोपेन्द्राः पञ्चैतड्विश्चक्रिणौ द्वौ। यत्रोक्ता द्वाविंशतिः सूत्ररत्नाम्भोधेस्तुर्य पर्व तद् वः श्रियेऽस्तु ॥ ४०५॥ सूत्रात् किश्चिदुदीरितं कथाभ्यः किश्चिद् योगपटाच्च किश्चिदत्र । तेषु स्याद् यदि किश्चनापि मिथ्या मिथ्यादुष्कृतमस्तु तत्र सन्तः। ॥ ४०६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि सनत्कुमारचरितवर्णनो नाम सप्तमः सर्गः संपूर्णः। ॥ समाप्तं चेदं चतुर्थ पर्व ॥ १ दिशा जये। २ बलभद्राः। ३ वासुदेवाः। प्रतिवासुदेवाः । Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy