Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 536
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् । ॥४३१॥ ज्ञात्वा तु मोक्षसमयं खामी संमेतमेत्य च । समं मुनिशतेनाष्टयुतेनानशनं व्यधात् ॥ ३५९ ॥ मासान्ते ज्येष्ठविशदपञ्चम्यां पुष्यगे विधौ । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥ ३६०॥ श्रीधर्मखामिनस्तेषां श्रमणानां च तत्क्षणम् । चक्रुर्निर्वाणमहिमोत्सवं शक्रादयः सुराः॥३६१ ॥ अनन्तस्वामिनिर्वाणाद् धर्मनाथस्य निर्वृतिः। अजायत व्यतिक्रान्ते सागराणां चतुष्टये ॥ ३६२ ॥ कौमारेऽब्दलक्षे सार्धे राज्ये पश्चाब्दलक्ष्यभृत् । सार्धा व्रते व्यब्दलक्षीत्यब्दलक्षा दश प्रभोः ॥३६३॥ तैस्तैः पुरुषसिंहोऽपि सिंहवद्धिंस्रकर्मभिः । पूर्णायुः कालतोऽगच्छत् षष्ठी नरकमेदिनीम् ॥ ३६४॥ कौमारेऽस्य व्यब्दशती मण्डलित्वे शतानि तु । सार्धानि द्वादशाब्दानां सप्तत्यब्दी तु दिग्जये ॥३६५॥ राज्ये तु नवलक्ष्यष्टानवतिश्च सहस्रकाः । शतानि त्रीण्यशीतिश्चेत्यब्दलक्षा दशायुषि ॥ ३६६ ॥ ततो बल: सप्तदशाब्दलक्षायुर्विनाऽनुजम् । कथञ्चिजीवितं दधे भ्रातृस्नेहवशंवदः॥३६७ ॥ द्राक् सुदर्शनभृतोऽन्तदर्शनादाशोकविवशः सुदर्शनः । किर्तिसाधुनिकटेऽग्रहीद् व्रतं पूरितायुरपुनर्भवं ययौ ॥ ३६८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीधर्मनाथ-पुरुषसिंह-सुदर्शन-निशुम्भचरितवर्णनो नाम पञ्चमः सर्गः। श्रीधर्मनाथप्रभोः निर्वाणम् । ॥४३१॥ प्राक् सु. का. ॥ . सुदर्शननामकं चक्रं बिभर्ति तस्य __ * "क्ष्यथ सा संबृ०॥ + ते द्विलक्षी चेत्य संवृ.॥ मर्द्धचक्रिणोऽवसानविलोकनात् । Jain Education Interna l For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574