Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 544
________________ चतुर्थ पर्व | सप्तमः पुरुषचरिते महाकाव्ये त्रिषष्टि नादत्त चानले क्षेप्नु विष्णुश्रियं मृतामपि । प्रिया ममैषा प्रणयतूष्णीकेत्यनिशं वदन ॥२४॥ शलाका मत्रिणो मन्त्रयित्वाऽथ वञ्चयित्वा च भूपतिम् । अरण्ये चिक्षिपुर्नीत्वा तद्विष्णुश्रीकलेवरम् ॥२५॥ त्वमासीरधुनैवेह किं प्रिये ! न निरीक्ष्यसे । तिरोधानक्रीडयाऽलं वियोगस्य वयस्यया ॥२६॥ नर्मणाऽपि वियोगाग्निर्माविद् युज्यते न हि । मदा तव किं नातिरावां ह्येकात्मकौ सदा ॥२७॥ एकाकिनी किमगच्छ क्रीडासरिति कौतुकात् । क्रीडाद्रिमथवारोहः क्रीडोद्यानमथाभ्यगाः॥२८॥ ॥४३५॥ मां विना क्रीडसि कथमायाम्येष इति ब्रुवन् । तेषु तेषु प्रदेशेषु बभ्रामोन्मत्तवन्नृपः ॥२९॥ राज्ञश्च त्यक्तपानानवृत्तेर्गतवति व्यहे । मरणाशङ्किनोऽमात्यास्तस्या वपुरदर्शयन् ।। ३०॥ अच्छभल्लवदंत्यन्तविसंस्थुलशिरोरुहम् । शशवच्छशरे वन्या कङ्कराकष्टलोचनम् ॥३१॥ चर्वितोरसिजद्वन्द्वं गृधैः पिर्शितगृभूमिः । समाकृष्टात्रभारं च शिवाभिरेशिवाकृति ॥ ३२॥ छादितं मक्षिकावृन्दैर्मधुमण्डकजालवत् । पिपीलिकाभिश्चाश्लिष्टं पातभग्राण्डजाण्डवत् ॥ ३३ ॥ पूतिगन्धि तदालोक्य सद्यो विष्णुश्रियो वपुः । विरक्तो विक्रमयशाश्चिन्तयामासिवानिति ॥३४॥ ॥चतुर्भिः कलापकम् ॥ अहो! असारे संसारे सारं वस्तु न किश्चन । सारबुद्ध्या धिगेतस्यां मोहिताः स्मः कियच्चिरम् ॥ ३५॥ * "तुं तद्विष्णुश्रीकलेवरं मु०॥ १ बियोगस्य मित्ररूपया तिरोधानक्रीडयाऽलमित्यन्वयार्थः। योगं वरिवस्यया का०॥ २ अतिविस्तीर्णानि शिरोरुहाणि केशा यस्मिंस्तद् वपुः । ३ चर्वितस्तनयुग्मम् । ४ मांसकोलुपैः। ५ अशुभाकारम् । ४६ यथा पतनेन भग्नं स्फुटितमण्डजस्याण्डं पिपीलिकाभिराश्लिष्यते तथा। ण्डभाण्ड मु.॥ सर्गः श्रीसनत्कुमारचक्रिचरितम् । AAAAAAAA ॥४३५॥ Jain Education For male & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574